2023-02-19 13:23:20 by ambuda-bot
This page has not been fully proofread.
कोदम्बरीसंग्रहः ।
शुकनासस्तं संसंभ्रममुत्थायानुपूर्येणोत्थितराजलोक: साइ-
रमभिमुखदत्ताविरलपद: प्रहर्षविस्फारितलोचनागतानन्दजलकण: सह
वैशम्पायनेन प्रेम्णा गाढमालिलिङ्ग । आलिङ्गितोन्मुक्तश्च सादरो-
पनीतमपहाय रत्नासनम्, अवनावेव राजपुत्रः समुपाविशत् । तदनु
च वैशम्पायन: ।
*
४४
समुपविष्टे च राजपुत्रे शुकनासवर्जमन्यदखिलमवनिपालचक्र-
मुज्झित निजासनमवनितलमभजत । स्थित्वा च तूष्णीं क्षणमित्र,
शुकनासः समुद्गतप्रीतिपुलकैरङ्गैररावेद्यमान हृदयहर्षप्रकर्षः, तमब्रवीत् --
'तात चन्द्रापीड, अद्य खलु देवस्य तारापीडस्य समाप्त विद्यमुपारूढ-
यौवनमालोक्य भवन्तम्, सुचिरा वनराज्यफलप्राप्तिरुपजाता। अद्य
समृद्धा: सर्वा गुरुजनाशिषः । अद्य फलितमनेकजन्मान्तरोपात्तमव-
दातं कर्म । अद्य प्रसन्ना: कुलदेवताः । न ह्यपुण्यभाजां भवादृशा-
स्त्रिभुवनविस्मयहेतवः पुत्रतां प्रतिपद्यन्ते । क्वेदं वयः । क्वेयममानुषी
शक्ति: । क्व चेदमशेषविद्याग्रहणसामर्थ्यम् । अहो, धन्याः प्रजाः,
यासां भरतभगीरंथप्रतिमो भवानुत्पन्न: पालयिता । किं खलु कृतमव-
दातं कर्म वसुंधरया, ययासि भर्ता समासादित: । सर्वथा कल्पकोटी-
मेहावराह इव दंष्ट्रावलयेन वह बाहुना वसुंधराभारं सह पित्रा'
इत्यभिवाय च, स्वयमाभरणवसन कुसुमाङ्गरागादिभिरभ्यर्च्य विसर्जयां-
चकार ।
त्रिसर्जितश्चोत्थायान्तःपुरं प्रविश्य, दृष्ट्वा वैशम्पायनमातरं मनो-
रमाभिधानाम्, निर्गत्य समारुह्येन्द्रायुधम् पित्रा पूर्वकल्पितं प्रतिष्ठ-
न्दकमित्र राजकुलस्य कुमारो भवनं जगाम । गत्वा च श्रीमण्डपाव-