This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
M
 
वनितले समुपविशन्तमाकृष्य बलादनिच्छन्तमपि चन्द्रापीडमुत्सङ्गमा-
रोपितवती । ससंभ्रमपरिजनोपनीतायामासन्द्यामुपविष्टे च वैशम्पा-
यने, चन्द्रापीडं पुनः पुनरालिङ्गय, ललाटदेशे वक्षसि भुजशिखरयोश्च
मुहुर्मुहु: करतलेन परामृशन्ती विलासवती तमवादीत् –'वत्स,
कठिनहृदयस्ते पिता, येनेयमाकृतिरीदृशी त्रिभुवनलालनीया क्लेश-
मतिमहान्तमियन्तं कालं लम्भिता । कथमसि सोढवानतिदीर्घामिमा
गुरुजनयन्त्रणाम् । अहो बालस्यापि सतः कठोरस्येव ते मह-
द्धैर्यम् । अहो विगलितशिशुजन क्रीडाकौतुकलाचवमर्भके त्वयि
यम् । अहो गुरुजनस्योपरि भक्तिरसाधारणी । सर्वथा यथा पितु.
प्रसादात्समस्ताभिरुषेतो विद्याभिरालोकितोऽसि, एवम चिरेणैव कालेना-
नुरूपाभिर्वधूभिरुपेतमालोकयिष्यामि' इत्येवमभिवाय लज्जास्मितावनतं
कपोले पर्यचुम्चदेनम् । एवं च तत्रापि नातिचिरमेव स्थित्वा, क्रमेण
सर्वान्तः पुराणि दर्शनेनानन्दयामास । निर्गत्य च राजकुलद्वारावस्थि-
तमिन्द्रायुवमारुह्या तथैव तेन राजपुत्रलोकेना नुगम्यमान:, शुकनासं
द्रष्टुमयासीत् ।
 
समन्ततो विविधशास्त्राञ्जनोन्मीलितबुद्धिलोचनः शाक्यमुनि-
शासनपथधौरेयै रक्तपटै: पाशुपतैर्द्विजैश्च दिवानिशमासेव्यमानं शुक-
नासगृहद्वारमासाद्य, राजकुल इव राजपुत्रो बाह्याङ्गण एव तुरंगाद-
वततार । द्वारदेशावस्थापिततुरंगश्च वैशम्पायनमवलम्ब्य, नवनवसुधा-
बदातप्रासादसहस्त्रनिरन्तरं द्वितीयमित्र राजकुलं शुकनासभवनं विवेश ।
प्रविश्य चामेकनरेन्द्रसहस्त्रमध्योपविष्टमपरमिव पितरमुपदर्शित विनयो
दूरावनतेन मौलिना शुकनासं ववन्दे ।
 
४३