This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
कक्षान्तराण्यतिक्रम्य, कुलक्रमागतैरुदास्तान्वयैरनुरक्तैः सर्वतः शरीरर-
क्षाधिकारनियुक्तैः पुरुषैः परिवृतं हंसधवलशयनतले निषण्णं पितर-
मपश्यत् ।
 
४२
 
-
 
'आलोकय' इति च प्रतीहारवचनानन्तरमतिदूरावनतेन
शिरसा कृतप्रणामम् 'एह्येहि' इत्यभिदधानः, दूरादेव प्रसारितभुज-
युगल:, तं पिता विनयावनतमालिलिङ्ग । आलिङ्गितोन्मुक्तश्च पितु -
चरणपीठसमीपे पिण्डीकृतमुत्तरीयमात्मताम्बूलकरङ्कवाहिन्या सत्व-
रमासनीकृतम् 'अपनय' इति शनैर्वदन्नप्रचरणेन समुत्सार्य, चन्द्रापीड:
क्षितितल एव निपसाद । अनन्तरनिहिते चास्यासने राज्ञा सुतनिर्वि-
शेषमुपगूढो वैशम्पायनो न्यषीदत् । मुहूर्तमिव स्थित्वा 'गच्छ वत्स,
पुत्रवत्सलां मातरमभिवाद्य दर्शनलालसा यथाक्रमं सर्वा जननी-
दर्शनेनानन्दय' इति विसर्जितः पित्रा, सविनयमुत्थाय, निवारितपरि-
जनः, वैशम्पायनद्वितीयः, अन्तः पुरप्रवेशयोग्येन राजपरिजनेनोपदि-
श्यमानवर्मा अन्तःपुरमाययौ ।
 
तत्र धवलकचुकावच्छन्नशरीरैरनेकशतसंख्यैः समन्तात्परिवृतां
शुद्धान्तान्तर्वेशिकैः, अतिप्रशान्ताकाराभिश्च कषायरक्ताम्बरधारिणी-
भिर्भूतपूर्वा: पुण्या: कथा: कथयन्तीभिर्जरत्प्रव्रजिताभिर्विनोद्यमानाम्,
समुपसृत्य मातरं ननाम ।
 
सा तु तं ससंभ्रममुत्थाप्य, सत्यप्याज्ञासंपादनदक्षे पार्श्वप-
रिवर्तिनि परिजने स्वयमेव कृतावतरणका, हृदयेनान्त: शुभशतान्य-
मिथ्यायन्ती, मूर्धन्युपाघ्राय, तं सुचिरमाशिश्लेष । अनन्तरं च तथैक
कृतयथोचितसमुपचारमाश्लिष्टवैशम्पायना स्वयमुपविक्रय, विनयाद-