2023-02-19 13:23:19 by ambuda-bot
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
लोचन त्रिभागेण वामदशनकोटिनिषण्णहस्तेम निश्चलकर्णतालेनाकर्ण-
यता गन्धमादननाम्ना गन्धहस्तिना सनाधीकृतैकदेशम्, उज्ज्वलपट्ट-
कम्बलपटप्रावारितष्पृष्ठैश्च भूपालवल्लभैर्मन्दुरागतैस्तुरंगमैरुद्भासितम्, अ-
विकरणमण्डपगतैश्चार्य वेषैरत्युच्चवेत्रासनोपविषैर्धर्ममयैरिव धर्माधिकारि-
भिर्महापुरुषैरधिष्टितम् अधिगतसकलग्रामनगरनामभिरेकभवनमिव
जगदखिलमालोकयद्भिरालिखित
सकलभुवनव्यापारतया धर्मराजनगर-
व्यतिकरमित्र दर्शयद्भिरधिकरणलेख कैरालिख्यमानशासनसहस्रम्, आ-
स्थानमण्डपगतेन च यथोचितासनांपविष्टेन भावयता नरपतिकृत-
काव्यसुभाषितानि गृह्णता कविगुणान् मूर्धाभिषिक्तेन सामन्तलोकेना-
धिष्ठितम्, एकदेशनिपण्णचामीकरशृङ्खलासंयतश्वगणम्, अनेककु-
अकिरातवर्षबरबधिरवामनकमूकसंकुलम् इभपतिमदपरिमलामर्षजू-
म्भितैश्च निष्किजद्भिः पञ्जरकेसरिभिरुद्भास्यमानम्, जलधरसनाथ-
मित्र कृष्णागुरुधूमपटलै:, सबालातपमित्र रक्ताशोकै, सतारागण -
मित्र मुक्ताकलापैः सवर्षासमयमिव धारागृहै, सतटिलतमिव हेमम-
यीभिर्मयूरयष्टिभिः, सगृहदैवतमित्र सालभञ्जिकाभिः, उत्कृष्टकवि-
गद्यमिव विविधवर्णश्रेणिप्रतिपाद्यमानाभिनवार्थसंचयम्, संध्यासमय-
मिव दृश्यमानचन्द्रापीडोदयम्, बलभद्रमिव कादम्बरीरसविशेषवर्ण-
नाकुलम्, दिव्यमुनिगणमिव कलापिसनाथश्वेतकेतुशोभितं राजकुलं
विवेश ।
,
-
,
४१
ससंभ्रमोपगतैश्च कृतप्रणामै : प्रतीहारमण्डलैरुपदिश्यमानमार्गः,
पदे पदे चाभ्यन्तर विनिर्गताभिराचारकुशला भिरन्तः पुरवृद्धाभिः क्रिय-
माणावत्तरणमङ्गल, भुवनान्तराणीव विविधप्राणिसहस्त्रसंकुलानि सप्त