2023-02-19 13:23:19 by ambuda-bot
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
३९
-M
इदमश्वरत्नमनभ्युद्धरता, किं नाम रत्नमुद्धृतं सुरासुरलोकेन । उच्चैःश्रवसा
विस्मितहृदयो वञ्चितः खलु जलनिधिना शतमख: । मन्ये च
भगवतो नारायणस्य चक्षुर्गोचरतामियता कालेन नायमुपगतः, येना-
द्यापि तां गरुडारोहणव्यसनितां न परित्यजति । अहो खल्वतिश-
यितत्रिदशराजसमृद्धिरियं तातस्य राज्यलक्ष्मी, यदेवंविधान्यपि
सकल त्रिभुवनदुर्लभानि रत्नान्युपकरणतामुपगच्छन्ति । अतितेजस्वि-
तया महाप्राणतया च सदैवतेत्रेयमस्याकृतिर्यत्सत्यमारोहणे शङ्का मित्र
मे जनयति । दैवतान्यपि हि मुनिशापवशाज्झितनिजशरीरकाणि
शापवचनोपनीतानि शरीरान्तराण्यव्यासत एव । असंशयमनेनापि
महात्मना केनापि शापभाजा भवितव्यम् । आवेदयतीव मदन्त:कर-
णमस्य दिव्यताम्' इति विचिन्तयन्नेवारुरुक्षुरासनादुदतिष्ठत् ।
,
मनसा च तं तुरंगममनुपसृत्य 'महात्मन्नर्वन्, योऽसि सोऽसि ।
नमोऽस्तु ते । सर्वथा मर्षणीयोऽयमारोहणातिक्रमोऽस्माकम् । अपरिगतानि
दैवतान्यप्यनुचितपरिभवभाजि भवन्ति' इत्यामन्त्रयांबभूव । विदिता-
भिप्राय इव स तमिन्द्रायुधश्चट्लशिरः केसरसटाहत्याकूणिताकेकरतार-
केण तिर्यक्चक्षुषा विलोक्य हेषारवमकरोत् । अथानेन मधुरहेषितेन
दत्तारोहणाभ्यनुज्ञ इवेन्द्रायुधमारुरोह चन्द्रापीड: । समारुह्य तं प्रादे-
शमात्रमित्र त्रैलोक्यमखिलं मन्यमानो -निर्गत्य, अतिनिष्ठुरेण खुर-
पुदानां रखेण हेषितेन च बधिरीकृतसकलभुवनविवरमदृष्टपर्यन्तम-
श्वसैन्यमपश्यत् । तच्च सागरजलमिव चन्द्रोदयेन चन्द्रापीडनिर्गमेन
सकलमेव संचचालाश्वीयम् । अहमहमिकया च प्रणामलालसा:
सम्भसापनीतातपत्रशून्य शिरस: परस्परोत्पीडनकुपिततुरंग मनिवारणा-
-