This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
पपरिचयबहुमानेन शुकनासगौरवेण सहपांसुक्रीडनतया च सर्ववि-
स्त्रम्भस्थानं द्वितीयमिव हृदयं वैशम्पायनः परं मित्रमासीत् । निमे-
षमपि तेन विमा स्थातुमेकाकी न शशाक । वैशम्पायनोऽपि तं न
क्षणमपि विरहयांचकार ।
 
एवं तस्य सर्वविद्यापरिचयमाचरतश्चन्द्रापीडस्य यौवनारम्भः
प्रादुर्भवन् रमणीयस्यापि द्विगुणां रमणीयतां पुपोष । लक्ष्म्या सह
वितस्तार वक्षःस्थलम्। बन्धुजनमनोरथैः सहापूर्यतोरुदण्डद्वयम् ।
स्वरेण सह गम्भीरतामाजगाम हृदयम् ।
 
एवं च क्रमेण समारूढयौवनारम्भं परिसमाप्तसकलकलाविज्ञा-
नम् अधीताशेषविद्यं चावगम्य, अनुमोदितमाचार्यैश्चन्द्रापीडमानेतुं
राजा बलाधिकृतं वलाहकनामानमाहूय प्राहिणोत् ।
 
K
 
प्रणम्य,
 
मुहूर्त-
-
 
स गत्वा विद्यागृहं द्वाः स्यै: समावेदितः प्रविश्य, शिरसा
सविनयमासने राजपुत्रानुमतो न्यपीदत् । स्थित्वा च
मात्रं वलाहकश्चन्द्रापीडमुपसृत्य दर्शितविनयो व्यजिज्ञपत् - 'कुमार,
महाराज: समाज्ञापयति पूर्णा नो मनोरथा: । अधीतानि शास्त्राणि ।
शिक्षिताः सकला: कला: । गतोऽसि सर्वास्वायुधविद्यासु परां प्रतिष्ठाम् ।
अनुमतोऽसि निर्गमाय विद्यागृहात्सर्वाचार्यै: । उपगृहीतशिक्षमवगत-
सकलकलाकलापं पौर्णमासीशशिनमिव नवोद्गतं पश्यतु त्वां जनः ।
दर्शनं प्रति ते समुत्सुकान्यतीव सर्वाण्यन्तः पुराणि । अयमत्रभवतो
दशमो वत्सरो विद्यागृहमधिवसतः । प्रविष्टोऽसि षष्ठमनुभवन्वर्षम् ।
एवं संपिण्डितेनामुना षोडशेन प्रबर्धसे । तदद्यप्रभृति निर्गल्य दर्शनो-