This page has not been fully proofread.

३६
 
कादम्बरीसंग्रहः ।
 
प्राकारमण्डलेन परिवृतम्, अध: कल्पित व्यायामशालं विद्यामन्दिरमका-
रयत् । सर्वविद्याचार्याणां च संग्रहे प्रयत्नमतिमहान्तमन्वतिष्ठत् ।
तत्रस्थं च तं केसरिकिशोरकमिव पञ्जरगतं कृत्वा, प्रतिषिद्धनि-
र्गमम्, आचार्यकुलपुत्रप्रायपरिजनपरिवारम्, अपनीताशेष शिशुजन-
क्रीडाव्यासङ्गम्, अनन्यमनसम्, अखिलविद्योपादानार्थमाचार्येभ्यश्व-
न्द्रापीडं शोभने दिवसे वैशम्पायनद्वितीयमर्पयांबभूव । प्रतिदिनं चोत्था-
योत्थाय सह विलासवत्या विरलपरिजनस्तत्रैव गत्वैनमालोकयामास
राजा ।
 
"
 
"
 
चन्द्रापीडोऽप्यनन्यहृदयतया तथा नियन्त्रितो राज्ञा, अचिरेणैव
कालेन यथास्वमात्मकौशलं प्रकटयद्भिः पात्रवशादुपजातोत्साहैराचार्यै-
रुपदिश्यमानाः सर्वा विद्या जग्राह । तथा हि पदे, वाक्ये, प्रमाणे,
धर्मशास्त्रे, राजनीतिपु, व्यायाम विद्यासु, सर्वेष्वप्यायुवविशेषेषु, रथचर्यासु.
गजपृष्ठेषु, तुरंगमेषु, वीणावेणुमुरजप्रभृतिषु वाद्येषु, भरतादिप्रणीतेपु
नृत्तशास्त्रेषु, नारदीयप्रभृतिषु गान्धर्ववेद विशेषषु शकुनिरुतज्ञाने,
यन्त्रप्रयोगे, विषापहरणे, सुरुङ्गोपभेदे, तरणे, लङ्घने, प्लुतिपु, आरो-
हणे, सर्वलिपिषु, सर्वदेशभाषासु, अन्येष्वपि कलाविशेषेषु, परं कौश-
,
 
लमवाप ।
 
सहजा चास्याजस्त्रमभ्यस्यतो वृकोदरस्येव शैशव एवाविर्बभूव
सर्वलोकविस्मयजननी महापाणता । एकैकेन कृपाणप्रहारेण बाल
एव तालतरून्मृणालदण्डानिव लुलाव । दशपुरुषसंवाहनयोग्येन चा-
योदण्डेन श्रममकरोत् । ऋते च महाप्राणतायाः, सर्वाभिरन्याभिः
कलाभिरनुचकार तं वैशम्पायन: । चन्द्रापीडस्य तु सकलकलाकला-
4
 
MA