2023-02-19 13:23:18 by ambuda-bot
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
३५
श्रयंस इव शङ्खचक्रचिह्नौ प्रशस्तलेखालाञ्छितौ करौ । एष च
दुन्दुभेरिवातिगम्भीर: स्वरयोगोऽस्य रुदतः श्रूयते' इति ।
एवं कथयत्येव तस्मिन्, ससंभ्रमापसृतेन राजलोफेन दत्तमार्गः,
त्वरितगतिरागत्य, मङ्गलनामा पुरुष: पादयोः प्रणम्य, राजानं व्यजि-
ज्ञपत्–'देव, दिष्ट्या वर्धसे । प्रतिहतास्ते शत्रवः । चिरं जीव ।
जय च पृथिवीम् । त्वत्प्रसादादत्रभवतः शुकनासस्यापि ज्येष्ठायां ब्रा-
ह्मण्यां मनोरमाभिधानायां तनयो जातः । श्रुत्वा देव: प्रमाणम्' इति ।
अथ नृपतिरमृतवृष्टिप्रतिममाकर्ण्य तद्वचनं प्रत्यवदत्
कल्याणपरंपरा । सत्योऽयं जनप्रवादः - यद्विपद्विपदम्, संपत्संपदमनु-
बनातीति' इत्यभिधाय, प्रीतिविकसितमुख: सरभसमालिङ्गय विहसन्
स्वयमेव शुकनासस्योत्तरीयं पूर्णपात्रं जहार । उत्थाय च तथैव तेन
चारणगणेन विविधमुखवाद्यकृतकोलाहलन पठता गायता चानुगम्य-
मान:, शुकनासभवनं गत्वा द्विगुणतरमुत्सवमकारयत् ।
'अहो
अतिक्रान्ते च षष्ठीजागरे, प्राप्ते दशमंऽहनि, पुण्ये मुहूर्ते, गा:
सुवर्ण च कोटिशौ ब्राह्मणसात्कृत्वा, 'मातुरस्य मया परिपूर्णमण्डल-
श्चन्द्रः स्वप्ने मुखकमलमाविशन्दृष्टः' इति स्वप्नानुरूपमेव राजा स्वसूनो:
चन्द्रापीड इति नाम चकार । अपरेधुः शुकनासोऽपि कृत्वा ब्राह्मणो-
चिता: सकला: 'क्रिया:, राजानुमतमात्मजस्य विप्रजनोचितं वैशम्पा-
यन इति नाम चक्रे । क्रमेण कृतचूडाकरणादिबाल क्रियाकलापस्य
शैशवमतिचक्राम चन्द्रापीडस्य ।
तारापीड : क्रीडाव्यासङ्गविघातार्थ बहिर्नगरादनसिप्रम् अर्धक्रोश-
मात्रायामम्, अतिमहता तुहिनगिरिशिखरमालानुकारिणा सुधाधवलेन