This page has not been fully proofread.

३४
 
कादम्बरीसंग्रहः ।
 
म्बरधारिणीं भगवतीं षष्ठीदेवीं कुर्वता विन्यस्तालक्तकपटलपाठ-
लमध्यभागौ सूर्याचन्द्रमसावाबनता चन्दनजलधवलितेषु भित्तिशि-
खरभागेषु पञ्चरागविचित्रचेलचीरकलाप चिह्नामापीतपिष्टपङ्काङ्कितां
वर्धमान परम्परामन्यानि च प्रसवगृहमण्डनमङ्गलानि संपादयता पुरन्त्रि-
वर्गेण समधिष्ठितम्, उपद्वारसंयतविविधगन्धकुसुममालालंकृतजर-
च्छागम्, अध्ययनमुखरद्विजगण विप्रकीर्यमाणशान्त्युदकलवम्, अने-
कवृद्धाङ्गनारब्धसूतिकामङ्गलगीतिका मनोहरम्, अविच्छिन्नपठ्यमान-
नारायणनामसहस्रम्, सूतिकागृहमपश्यत् । अम्भः पावकं च स्पृष्टवा
विवेश ।
 
प्रविश्य च प्रसवपरिक्षामपाण्डुमूर्तेरुत्सङ्गगतं विलासवत्याः,
स्वप्रभासमुदयोपहतगर्भगृहप्रदीपप्रभम्, अपरित्यक्तगर्भरागत्वादुदयपरि-
पाटलमण्डलमिव सवितारम् अपरसंध्यालोहितबिम्बमिव चन्द्रम-
सम्, विद्रुमकिसलयदलैरिव बालातपच्छेदैरिव पद्मरागरश्मिभिरिव
रचितावयवम्, उद्भासमानैः सहजभूषणैरिव महापुरुषलक्षणैरुपेतम्,
आह्लादहेतुमात्मजं ददर्श । विगत निमेषनिश्चलपक्ष्मणा चक्षुषा पिब-
नि मनोरथसहस्त्रप्राप्तदर्शनं सस्पृहमीक्षमाणस्तनयाननं मुमुदे ।
कृतकृत्यं चात्मानं मेने । समृद्धमनोरथ : शुकनासस्तु शनैः शनैरङ्ग-
प्रत्यङ्गान्यस्य निरूपयन्, प्रीतिविस्तारितलोचनो भूमिपालमवादीत्-
'देव, पश्य पश्यास्य कुमारस्य गर्भसंपीडनवशादपरिस्फुटावयवशो-
भस्यापि माहात्म्यमाविर्भावयन्ति चक्रवर्तिचिड्दानि । तथा हि
अस्य संध्यांशुरक्तबालशशिकलाकारे ललाटपट्टे नलिननालभङ्गतन्तु-
तन्वीयमूर्णा परिस्फुरति । रक्तोत्पलकलिकालोहिततलौ भगवतो विष्टर-
-
 
."
 
Bar