This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
३३
 
समुपाविशत् । प्रमुष्टचामीकरचारुपादे धवलोपच्छदे चासन्ने शयना-
न्तरे शुकनासोऽपि न्यषीदत् ।
 
अथ तामुपारूढगर्भामालोक्य, हर्षभरमन्थरेण मनसा प्रस्तुत -
परिहासो राजा 'देवि, शुकनासः पृच्छति यदाह कुलवर्धना किमपि,
तरिक तथैव' इत्युवाच । अथाव्यक्तस्मितन्दुरितकपोलावरलोचना
लज्जया विलासवती तत्क्षणमधोमुखी तस्थौ ।
 
ततः क्रमेण यथासमीहितगर्भदोहदसंपादनप्रमुदिता, पूर्णे प्रसव-
समये, पुण्येऽहनि, अनवरतगलन्नाडिकाकलित कालकलैर्बहिरागृहीत-
च्छायैर्गणकैर्गृहीते लग्ने, प्रशस्तायां वेलायाम्, सकललोकहृदयानन्द-
कारिणं विलासवती सुतमसूत ।
 
1
 
तस्मिजाते, सरभसमितस्तत: प्रवावितस्य परिजनस्य चरणशत-
संक्षोभचलितक्षितितल: विस्फार्यमाणान्तः पुरजनाभरणशंकारमनोहरः,
पूर्णपात्राहरणविलुप्यमानवसनभूपण, राजकुले दिष्टवृद्धिसंभ्रमोऽति-
महानभूत् । अनन्तरं च मङ्गलपटहपटुरवसंवर्धितेन, अनेकजनसहस्र-
कलकलबहुलेन त्रिभुवनमापूरयता, उत्सवकोलाहलेन सान्तः पुरा:
सप्रकृतय: सराजलोका: सबालवृद्धा ननृतुरागोपालमुन्मत्ता इव हर्ष-
निर्भरा: प्रजाः ।
 
पार्थिवस्तु तनयाननदर्शनोत्सवहृत हृदयोऽपि दिवसवशेन
मौहूर्तिकगणोपदिष्टे प्रशस्ते मुहूर्ते, निवारितनिखिलपरिजन:, शुकना-
सद्वितीय, मणिमयमङ्गलकलशयुगलाशून्येन संनिहितकनकमयहलमु-
सल्युगेन बन्दनमालान्तरालघटितघण्टागणेन द्वारदेशेन विराजमानम्,
उभयतश्च द्वारपक्षकयोर्मर्यादा निपुणेन हरिद्राद्रवविच्छुरणपरिपिङरा-
3
 
"