This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
मे रजन्य: । मामपि दहत्येवायमहर्निशमनल इवानपत्यतासमुद्भवः
शोकः । शून्यमिव मे प्रतिभाति जगत् । अफलमित्र पश्यामि
राज्यम् । अप्रतिविधेये तु विधातरि किं करोमि । तन्मुच्यतामयं
देवि, शोकानुबन्ध: । आधीयतां धैर्ये धर्मे च धीः । धर्मपरायणानां
हि सदा समीपसंचारिण्य: कल्याणसंपदो भवन्ति" इत्येवमभिधाय,.
सलिलमादाय स्वयमाननमस्या: साश्रुलेख ममार्ज । पुन: पुनश्च
प्रियशतमधुराभिः शोकापनोदनिपुणाभिर्धर्मोपदेशगर्भाभिर्वाग्भिराश्वास्य,
सुचिरं स्थित्वा, नरेन्द्रो निर्जगाम ।
 
निर्गते च तस्मिन्, मन्दीभूतशोका विलासवती यथाक्रियमाणा-
भरणपरिगूहादिकमुचितं दिवसव्यापारमन्वतिष्ठत् । ततः प्रभृति
सुतरां देवतारावनेषु ब्राह्मणासु गुरुजनसपर्यासु चादरवती बभूव ।
यद्यच किंचित्कुतश्चिच्छुश्राव, गर्भतृष्णया तत्तत्सर्व चकार । न
महान्तमपि क्लेशमंजीगणत् । अनवरतदह्यमानगुग्गुलुबहुलधूपान्धकारि-
तेषु चण्डिकागृहेषु धवलाम्बर शुचिमूर्तिरुपोषिता हरितकुशोपच्छदेषु
मुसलशयनेषु सुष्वाप । पुण्यसलिलपूर्णैर्विविधकुसुमफलोपेतैः क्षीरतरु-
पछुत्रलाञ्छनैः सर्वरत्नगर्भे: शातकुम्भकुम्भैर्गोकुलेषु वृद्धगोपवनिता -
कृतमङ्गलानां लक्षणसंपन्नानां गवामध: सस्नौ । प्रतिदिवसमुत्थायो-
त्थाय सर्वरत्नोपेतानि हैमानि तिलपात्राणि ब्राह्मणेभ्यो ददौ । महानरे-
न्द्रलिखितमण्डलमध्यवर्तिनी विविधबलिदानानन्दितदिग्देवतानि, बहु-
लपक्ष चतुर्दशीनिशासु चतुष्पथे स्नपनमङ्गलानि भेजे । प्रसिद्धपु
नागकुलहूदेषु ममज्ज । अश्वत्थप्रभृतीनुपपादितपूजान्महावनस्पतीन्कृत-
प्रदक्षिणा ववन्दे । दोलायमानमणिवलयेन पाणियुगलेन स्नाता स्वय-
२९.
 
P