2023-02-19 13:23:17 by ambuda-bot
This page has not been fully proofread.
२८
कादम्बरीसंग्रहः ।
फलमुपनयति पुरुषस्येह जन्मनि । न हि शक्यं दैवमन्यथा कर्तुमभि -
युक्तेनापि । यावन्मानुष्य के शक्यमुपपादयितुं तावत्सर्वमुपपाद्यताम् ।
अधिकां कुरु देवि, गुरुषु भक्तिम् । द्विगुणामुपपादय देवतासु
पूजाम् । ऋषिजनसपर्यासु दर्शितादरा भव । परं हि दैवतमृषयः ।
यत्नेनाराधिता यथासमीहितफलानामतिदुर्लभानामपि वराणां दातारो
भवन्ति । श्रूयते हि — पुरा चण्डकौशिकप्रभावान्मगधेषु बृहद्रथो
• नाम राजा जरासंवं नाम तनयं लेभे । दशरथश्च राजा परिणतवया
विभण्डकमहामुनिसुतस्य ऋश्यश्रृङ्गस्य प्रसादादवाप चतुरः पुत्रान् ।
अन्ये च राजर्षयस्तपोधनानाराव्य पुत्रदर्शनामृतास्वादसुखभाजो
बभूवुः । अमोघकला हि महामुनिसेवा भवति । 'अहमपि खलु देवि,
• कदा समुपारूढगर्भभरालसामापाण्डुमुखीं देवीं द्रक्ष्यामि । कदा मे
तनयजन्ममहोत्सवानन्दनिर्भरो हरिष्यति पूर्णपात्रं परिजनः । कदा
हारिद्रवसनधारिणी सुतसनाथोत्सङ्गा मामानन्दयिष्यति देवी । कदा
सर्वौषधि पिञ्जर जटिलकेश:, निहितरक्षावृतबिन्दुनि तालुनि विन्यस्त-
.गौरसर्षपोन्मिश्रभूतिलेशः, गोरोचनाचित्रकण्ठसूत्रगुन्धिः, उत्तानशयः,
दशनशून्यस्मितानन:, पुत्रको जनयिष्यति मे हृदयालादम् । कदा
गोरोचनाकपिलद्युतिः, अन्तःपुरिकाकरतलपरंपरासंचार्यमाणमूर्तिः,
अशेषजनवन्दितः, मङ्गलप्रदीप इव मे शोकान्धकारमुन्मूलयिष्यति
चक्षुषोः । कदा च क्षितिरेणुधूसरो मण्डयिष्यति मम हृदयेन दृष्ट्या
च सह परिभ्रमन्भवनाङ्गणम् । कदा मातुश्चरणयुगलरागोपयुक्तशेषेण
पिण्डालक्तकरसेन वृद्धकञ्चुकिनां विडम्बयिष्यति मुखानि' इत्येतानि च
अन्यानि च मनोरथशतानि चिन्तयतोऽन्तः संतप्यमानस्य प्रयान्ति