This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
२७
 
षये । त्वदायत्तं हि मे जीवितं च राज्यं च । कथ्यतां सुन्दरि, शुच:
कारणम्' इत्येवमभिधीयमाना विलासवती यदा न किंचित्प्रतिवचः
प्रतिपेदे, तडा विवृद्धबाष्पहेतुमस्या: परिजनमपृच्छत् ।
 
le
 
अथ तस्यास्ताम्बूलकरङ्कवाहिनी सततप्रत्यासन्ना मकरिका
नाम राजानमुत्राच
— 'देव, कुतो देवादल्पमपि परिस्स्वलितम् ।
अभिमुखे च देवे का शक्तिः परिजनस्यान्यस्य वा कस्यचिदपराद्धुम् ।
किं तु विफला किल चिरमस्मीत्ययमस्या देव्याः संताप: । सुमहांश्च
काल संतग्यमानाया । प्रथममपि स्वामिनी शयनस्नानभाजनभूषण-
परिग्रहादिषु समुचितेष्वपि दिवसव्यापारेषु कथं कथमपि परिजन-
प्रयत्नात्प्रवर्लमाना सशोकैवासीत् । देवहृदयपीडापरिजिही या न दर्शि-
तवती विकारम् । अद्य तु चतुर्दशीति भगवन्तं महाकालम चितुमिता
गतया तत्र महाभारते वाच्यमाने श्रुतम्
– 'अपुत्राणां किल न
सन्ति लोका: शुभा; पुन्नाम्नो नरकात्त्रायत इति पुत्रः' इति । एत
च्छ्रुत्वा भवनमागत्य परिजनेन सशिर: प्रणाममभ्यर्थ्यमानापि नाहार-
मभिनन्दति, न भूषणपरिगृहमाचरति, नोत्तरं प्रतिपद्यते, केवलमविर-
लबाष्पबिन्दुकलुषमुखी रोदिति । एतदाकर्ण्य देव: प्रमाणम्' इत्यभि--
धाय विरराम ।
 
विरतवचनायां च तस्यां भूमिपालस्तूष्णीं मुहूर्तमिव स्थित्वा
दीर्घमुष्णं च निश्वस्य निजगाद · 'देवि, किमत्र क्रियतां देवायत्ते
वस्तुनि । अतिमात्रमलं रुदितेन । न वयमनुग्राह्याः प्रायो देवता --
नाम् । आत्मजपरिष्वङ्गामृतास्वादसुखस्य नूनमभाजनमस्माकं हृदयम् ।
अन्यस्मिन्ञ्जन्मनि न कृतमवदातं कर्म । जन्मान्तरकृतं हि कर्म