This page has not been fully proofread.

२६
 
कादम्बरीसंग्रहः ।
 
न्मावर्धतास्य संतापः । नरपतिसहस्त्रपरिवृतमप्यसहायमित्र, चक्षुष्म-
न्तमप्यन्वमित्र, आत्मानममन्यत ।
 
रातित्रक्ष: स्थलस्य,
 
अथ तस्य, चन्द्रलेखेत्र हरजटाकलापस्य, कौस्तुभप्रभेव कैटभा-
चन्दनवनराजिरिव मलयस्य,
चन्दनवनराजिरिव मलयस्य, फणामणिशिखेव
शेषस्य, भूषणमभूत्रिभुवन विस्मयजननी सकलान्तः पुरप्रधानभूता
महिषी विलासवती नाम ।
 
एकदा च स तदावासगतः, तां चिन्तास्तिमितदृष्टिना शोकमूकेन
परिजनेन परिवृताम्, अनतिदूरवर्तिनीभिश्चान्तः पुरवृद्धाभिराश्वास्यमा-
नाम्, अविरलाश्रुबिन्दुपाताकृतदुकूलाम्, अनलंकृताम्, वामकरत-
लत्रिनिहितमुखकमलाम्, असंयताकुलालकाम्, सुनिबिडपर्यङ्किकोप-
विष्टां रुदतीं ददर्श ।
 
4
 
कृतप्रत्युत्थानां च तां तस्यामेत्र पर्यङ्किकायामुपवेश्य, स्वयं
चोपविश्य, अविज्ञातबाष्पकारण:, भीतभीत इव करतलेन विगतबा-
ष्पाम्भः कणौ कुर्वन्कपोलौ, भूपालस्तामवादीत् - 'देवि, किमर्थमन्तर्गत
गुरुशोकभारमन्थरमशब्दं रुद्यते । प्रश्नन्ति हि मुक्ताफलजालकमिव
बाष्पविन्दु निकरमेतास्तव पक्ष्मपतयः । किमर्थे च कृशोदरि, नालं-
कृतासि ? बालातप इव रक्तारविन्दकोशयोः किमिति न पातितश्चरण-
योरलक्तकरस : ' केन कारणेन न विभूषिता हारेण शिरोधरा ? इमां
च केन हेतुना मानिनि, धारयस्यनुपरचितगोरोचनाबिन्दुतिलकामसं-
यमितालकिनी ललाटरेखाम्? प्रसीद, निवेदय देवि, दु:खनिमित्तम्'
कि क्वचिन्मयापराद्धम्, अन्येन वा केनचिदस्मदुपजीविना परिजनेन?
अतिनिपुणमपि चिन्तयन्न पश्यामि खलु स्खलितमल्पमप्यात्मनस्त्वद्वि-
M