This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
२५
 
ममंस्त लोकः । यस्य च दिष्टवृद्धिमिव शुश्राव, उपदेशमिव जग्राह,
मङ्गलमिव बहु मेने, मन्त्रमिव जजाप, आगमवचनमिव न विसस्मार
चरितं जनः ।
 
तस्य च राज्ञो निखिलशास्त्रकलावगाहगम्भीरबुद्धिः, आ शैशवा-
दुपारूढनिर्भरप्रेमरस:, नीतिशास्त्रप्रयोगकुशल: महत्स्वपि कार्य-
संकटेष्यविषण्णधी:, धाम धैर्यस्य, स्थानं स्थिते:, सेतुः सत्यस्य,
'धाता धर्मस्य, बृहस्पतिरिव सुनासीरस्य, वसिष्ठ इव दशरथस्य, सर्व-
कार्येष्वाहितमति: अमात्यो ब्राह्मणः शुकनासो नामासीत् ।
 
.
 
यस्यानेकचारपुरुषसहस्रसंचारनिचिते चतुरुदधिवलयपरिक्षे-
पप्रमाणे धरणितले भवन इवाविदितमहरह: समुच्छुसितमपि राज्ञां
नासीत् ।
 
स राजा बाल एव सुरकुञ्जरकरपीवरेण राजलक्ष्मीलीलो-
पधानेन बाहुना विजित्य सप्तद्वीपवलयां वसुंधराम्, तस्मिञ्शुकनास-
नाम्नि मन्त्रिणि सुहृदीव राज्यभारमारोप्य, सुस्थिताः प्रजाः कृत्वा,
शिथिलितपृथिवीव्यापारः, प्रायो विषयसुखान्यनुबभूव ।
 
शुकनासोऽपि
 
महान्तं तं राज्यभारमनायासेनैव प्रज्ञाबलेन
बभार । यथैव राजा सर्वकार्याण्यकार्षीत् तदसावपि द्विगुणीकृत-
प्रजानुरागश्चके ।
 
एवं तस्य sो मन्त्रित्रिनिवेशितराज्यभारस्य यौवनसुखमनु-
भवत: कालो जगाम । भूयसो च कालेनान्येषामपि जीवलोकसुखानां
प्राय: सर्वेषामन्तं ययौं । एकं तु सुतमुखदर्शनसुखं न लेभे । यथा
 
,
 
• यथा च यौवनमतिचक्राम, तथा तथा विफलमनोरथस्यानपत्यताज-
न्व