This page has not been fully proofread.

'कादम्बरीसंग्रहः ।
 
२३
 
अनेन च समयेन परिणतो दिवस: । अपरसागराम्भसि पति-
ते दिनकरे पतनवेगोत्थितमम्भः शीकर निकरमिव तारागणमम्बरमधार-
यत् । क्षयमुपगतायां संध्यायां तद्विनाशदुःखिता कृष्णाजिनमित्र
विभावरी तिमिरोद्गममभिनवमवहत् । अपहाय मुनिजनहृदयानि
सर्वमन्यदन्धकारतां तिमिरमनयत् । विगलितसकलोदयरागं रज-
निकरबिम्बमम्बरापगावगाहधौत सिन्दूरमैरावतकुम्भस्थलमिव तत्क्षणम-
लक्ष्यत । शनैः शनैश्च दूरोदिते भगवति हिमततिस्रुति, सुधाधूलि -
पटलेनेव धवलीकृते चन्द्रातपेन जगति, अर्धयाममात्रावखण्डितायां
विभावर्याम्, हारीत: कृताहारं मामादाय सर्वैस्तै: सह मुनिभिरुपसृत्य,
चन्द्रातपोद्भासिनि तपोवनैकदेशे वेत्रासनोपविटं पितरमवोचत् - 'हे
तात, सकलेयमाश्चर्यश्रवणकुतूहलाकलितहृदया समुपस्थिता तापस-
परिषदाबद्धमण्डला प्रतीक्षते । व्यपनीतश्रमश्च कृतोऽयं पतत्रिपोतः ।
तदावेद्यताम् यदनेन कृतमपरस्मिअन्मनि, कोऽयमभूत्, भविष्यति
च' इति । एवमुक्तस्तु स महामुनिरग्रतः स्थितं मामवलोक्य, तांश्च
सर्वाने काग्राञ्छ्रवणपरान्मुनीन्बुवा, शनैः शनैरब्रवीत् । श्रूयतां यदि
कुतूहलम् ।
 
अस्ति सकलत्रिभुवनललामभूता, आत्मनिवासोचिता भग-
बता महाकालभिधानेन प्रमथनाथेनापरेव पृथिवी समुत्पादिता, द्वितीय-
पृथिवीशङ्कया च जलनिधिनेव रसातलगम्भीरेण जलपरिखावलयेन
परिवृता, पशुपतिनिवासप्रीत्या गगनपरिसरोल्लेखिशिखरमालेन कैला-
सगिरिणेव सुधासितेन प्राकारमण्डलेन परिगता, प्रक
प्रकटशङ्खशुक्तिमु
क्ताप्रवालमरकतमणि राशिभिश्चामीकरचूर्ण वालुकानि करचितैराया मिभिर-
ww