This page has not been fully proofread.

२२
 
कादम्बरीसंग्रहः ।
 
हलो भगत्राञ्जाबालिरीषदावलितकंधरो मामतिप्रशान्तया दृष्टया दृष्टा,
सुचिरमुपजातप्रत्यभिज्ञान इव पुन: पुनर्विलोक्य, 'स्वस्यैवाविनयस्य
फलमनेनानुभूयते' इत्यवोचत् । स हि भगवान्कालत्रयदर्शी तपः-
प्रभावादिव्येन चक्षुषा सर्वमेव करतलगतमिव जगदवलोकयति ।
वेत्ति जन्मान्तराण्यतीतानि । कथयत्यागामिनमप्यर्थम् । यतः सर्वेव
तापसपरिच्छू विदिततत्प्रभावा 'कीदृशोऽनेनाविनयः कृतः,
किमर्थं वा कृतः, क्व वा कृतः, जन्मान्तरे वा कोऽयमासीत् '
इति कौतूहलिन्यभवत् । उपनाधितवती च तं भगवन्तम् 'आवे-
दय, प्रसीद, भगवन् कीदृशस्याविनयस्य फलमनेनानुभूयते। कश्चाय-
मासीज्जन्मान्तरे । विहगजातौ कथमस्य संभवः । किमभिधानो
वायम् । अपनयतु नः कुतूहलम् । आश्चर्याणां हि सर्वेषां भगवान्
प्रभवः' इति ।
 
"
 
एवमुपयाच्यमानस्तु तपोधनपरिषदा स महामुनि: प्रत्यवदत् -
'अतिमहदिदमाश्चर्यमाख्यातव्यम् । अल्पशेषमहः । प्रत्यासीदति च नः
स्नानसमयः । भवतामप्यतिक्रामति देवार्चन त्रिधिवेला । तदुत्तिष्ठन्तु
भवन्तः । सर्व एव तावदाचरन्तु यथोचितं दिवसव्यापारम् । अपरा-
ह्ह्णसमये भवतां विस्रब्धोपविष्टानामादितः प्रभृति सर्वमा वेदयिष्यामि -
योऽयम्, यच्चानेन कृतमपरस्मिञ्जन्मनि, इह लोके यथास्य संभूतिः ।
अयं च तावदपगतक्लम: क्रियतामाहारेण । नियतमयमध्यात्मनो
जन्मान्तरोदन्तं स्वप्नोपलब्धमिव मयि कथयति सर्वमशेषत: स्मरि-
ष्यति' इत्यभिदधदेवोत्थाय सह मुनिभिः स्नानादिकमुचितं दिवस-
व्यापारमकरीत् ।