This page has not been fully proofread.

कादम्बरीसंग्रहः
३३,উছ
दिवसकरो मोहान्धकारस्य, कुलभवनमाचाराणाम्,
 
৭%%,
 
२५२१
 
आयतनं मङ्गला-
,
 
नाम्, प्रतिपक्ष: कलिकालस्य, कोशस्तपसः सखा सत्यस्य, क्षेत्रमार्ज-
वस्य, प्रभवः पुण्यसंचयस्य, अवशो विषयाणाम्, अनभिमुखः सुखा-
नाम् । अस्य भगवतः प्रसादादेवोपशान्तवैरमपगतमत्सरं तपोवनम् ।
अहो प्रभावो महात्मनाम् । अत्र हि शाश्वतिकमपहाय विरोधम्, उपशा-
न्तात्मानस्तिर्यञ्चोऽपि तपोवनवसतिसुखमनुभवन्ति । तथा हि-
एष विशति शिखिनः कलापमातपाहतो निः शङ्कमहिः । अयमुत्सृज्य
मातरमजातकेसरैः : केसरिशिशुभिः सहोपजातपरिचय: प्रक्षरत्क्षीर-
धारमापिबति कुरङ्गशाबक सिंहीस्तनम्' इति ।
 
i
 
एवं चिन्तयन्तमेव मां तस्यामेवाशोकतरोरवश्छायायामे कदेशे
स्थापयित्वा, हारीतः पादावुपगृह्य कृताभिवादनः पितुरनतिसमीप -
चर्तिनि कुशासने समुपाविशत् । आलोक्य तु माम्,
ते सर्व एव मुनयः
'कुतोऽयमासादितः शुकशिशुः' इति तमासीनमपृच्छन् । असौ तु
तानब्रवीत् - 'अयं मया स्नातुमितो गतेन कमलिनी सरस्तीरतरुनीड-
पतितः शुकशिशुर्दूरनिपतनविह्वलतनुरल्पावशेषायुरासादितः । तपस्वि-
दुरारोहतया च तस्य वनस्पतेर्न शक्यते स्वनीडमारोपयितुमिति
जातदयेनानीत: । तद्यावदयमप्ररूढपक्षतिरक्षमोऽन्तरिक्षमुत्पतितुम्,
तावदत्रैव कस्मिंश्चिदाश्रमतरुकोटरे मुनिकुमारकैर स्माभिश्चोपनीतेन
नीवारकणनिकरेण फलरसेन च संवर्ध्यमानो धारयतु जीवितम् ।
अनाथपरिपालनं हि धर्मोऽस्मद्विवानाम् । उद्भिन्नपक्षतिस्तु गगनतल-
संचरणसमर्थो यास्यति, यत्रास्मै रोचिष्यते । इहैव वोपजातपरिचयः
स्थास्यति' इत्येवमादिकमस्मत्संबद्ध मालापमाकर्ण्य किंचिदुपजातकुत्-
4
 
ट्रे