2023-02-19 13:23:16 by ambuda-bot
This page has not been fully proofread.
२०% यूथ कादम्बरींसंग्रहः ।
सवितु: संविभागमित्र कुर्वाणम्, वैनतेयमिव स्वप्रभावोपात्तद्विजा-
धिपत्यम्, शंतनुमिव प्रियसत्यव्रतम्, भगवन्तं जाबालिमपश्यम् ।
SÃO
अवलोक्य चाहमचिन्तयम् – 'अहो प्रभावस्तपसाम् । इय-
मस्य शान्तापि मूर्तिरुत्तप्तकनकावदाता परिस्फुरन्ती सौंदामनीव
चक्षुषः प्रतिहन्ति तेजांसि । सततमुदासीनापि महाप्रभावतया
भयमिवोपजनयति प्रथमोपगतस्य । नित्यमसहिष्णु तपस्विनां तनु-
तपसामपि तेज: प्रकृत्या भवति । किमुत सकलभुवनतलवन्दित-
चरणानामनवरततपःक्षपितमलानां करतलामलकफलवदखिलं जगदा-
लोकयतां दिव्येन चक्षुषा भगवतामवंविधानामघक्षयकारिणाम् ।
पुण्यानि हि नामग्रहणान्यपि महामुनीनाम्, किं पुनदर्शनानि ।
धन्यमिदमाश्रमपदम् अयमधिपतिर्यत्र । अथवा भुवनतलमेव धन्यम-
खिलमनेनाधिष्ठितमवनितलकमलयोनिना । पुण्यभाज: खल्वमी मुनयः,
यदहर्निशमेनमपरमिव नलिनासनमपगतान्यव्यापारा मुखावलोकन-
निश्चलदृष्टयः पुण्या: कथा: शृण्वन्तः समुपासते । चतुर्मुखमुख-
कमलवासिभिश्चतुर्भिर्वेदैः सुचिरादिव द्वितीयमिदमपर मुचितमासादितं
स्थानम् । नियतमिह सर्वात्मना कृताव स्थितिना भगवता परि-
भूतकलिकालविलसितेन धर्मेण न स्मर्यते कृतयुगस्य । धरणितलम-
नेनाधिष्टितमालोक्य न वहति नूनमिदानीं सप्तर्षिमण्डलनिवासाभि-
मानमम्बरतलम् । प्रायो महाभूतानामपि दुरभिभवानि भवन्ति
तेजांसि । सर्वतेजस्विनामयं चाग्रणी: । द्विसूर्यमिवाभाति जगद-
नेनाधिष्टितं महात्मना । एप प्रवाह करुणारसस्य, संतरणसेतुः
संसारसिन्धोः, आधार क्षमाम्भसाम्, परशुस्तृष्णालतागहनस्य,