This page has not been fully proofread.

१८
 
कादम्बरीसंग्रहः ।
 
भूमि: । अतिप्रबल पिपासावसन्नानि गन्तुमल्पमपि मे नालमङ्गकानि ।
अप्रभुरस्म्यात्मनः। सीदति मे हृदयम् । अन्धकारतामुपयाति चक्षुः ।
अपि नाम खलो विधिरनिच्छतोऽपि मे मरणमद्योपपादयेत्' इत्येवं
चिन्तयत्येव मयि – तस्मात्सरसो नातिदूरवर्तिनि तपोवने जाबालिर्नाम
महातपा मुनिः प्रतिवसति स्म । तत्तनयश्च हारीतनामा तापसकुमा-
रक: सनत्कुमार इव सर्वविद्यावदातचेताः सवयोभिरपरैस्तपोधनकु-
मारकैरनुगम्यमानस्तेनैव पथा, सकलविषयोपभोगनिवृत्यर्थमुपपादितेन
ललाटपट्टके त्रिसत्येनेव भस्मत्रिपुण्ड्रकेणालंकृतः, विषाणशिखरोत्खाता-
मुद्रहता स्नानमृदमुपजातपरिचयेन नीवारमुष्टिसंवर्धितेन तपोवनमृगे-
णानुयात:, तदेव कमलसर: सिष्णासुरुपागमत् ।
 

 
ww
 
प्रायेणाकारणमित्राण्यतिकरुणार्द्राणि च सदा खलु भवन्ति
सतां चेतांसि । यतः स मां तदवस्थमालोक्य समुपजातदय: समीप-
वर्तिनमृषिकुमारकमन्यतममब्रवीत् – 'अयं कथमपि शुकशिशुरसं-
जातपक्षपुट एव तरुशिखराद स्मात्परिच्युतः । श्येनमुखपरिभ्रष्टेन वानेन
भयितव्यम् । तथा हि — अतिदवीयस्तया प्रपातस्य, अल्पावशेषजी-
वितोऽयमामीलितलोचनो मुहुर्मुहुर्मुखेन पतति । मुहुर्मुहुरत्युल्यणं
श्वसिति । मुहुर्मुहुश्चचुपुटं विवृणोति । न शक्नोति शिरोधरां धार-
यितुम् । तदेहि । यावदेवायमसुभिर्न वियुज्यते, तावदेव गृहाणेमम् ।
अवतारय सलिलसमीपम्' इत्यभिधाय तेन मां सरस्तीरमनाययत् ।
उपसृत्य च जलसमीपमादाय स्वयं मां मुक्तप्रयत्नमुत्तानितमुखमगु-
ल्या कतिचिन्सलिलबिन्दूनपाययत् । अम्भ:क्षोदकृत सेकं च समुपजा-
तनवीनप्राणमुपतटप्ररूढस्य नलिनीपलाशस्य जलशिशिरायां छायायां