This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१७
 
निष्क्रम्य तस्मात्तमालतरुमूलात्सलिलसमीप -
 
पापकारिणमुत्प्रेक्षमाणो
मुपसतु प्रयत्नमकरवम् ।
 
अजातपक्षतया च नातिस्थिरसंचारस्य मुहुर्मुहुर्मुखेन पतत:,
मुहुस्तिर्यङ्किपतन्तमात्मानमेकया पक्षपाल्या संधारयत:, क्षितितलसं-
सर्पणश्रमातुरस्य, अनभ्यासत्रशादेकमपि दत्त्वा पदमनवरतमुन्मुखस्य
स्थूलस्थूलं श्वसतः, धूलिधूसरस्य संसर्पतो मम समभून्मनसि –'अति-
कष्टावण्यवस्थासु जीवितनिरपेक्षा न भवन्ति खलु जगति सर्वप्रा-
णिनां प्रवृत्तय: । नास्ति जीवितादन्यदभिमततरमिह जगति सर्व-
जन्तूनाम् । एवमुपरतेऽपि सुगृहीतनाम्नि ताते, यदहमविकलेन्द्रियः
पुनरेव प्राणिमि । धिङ्मामकरुणमतिनिष्ठुरमकृतज्ञम् । अहो सोढपि-
तृमरणशोकदारुणं येन मया जीव्यते । उपकृतमपि नापेक्ष्यते । खलं
हि खलु मे हृदयमै । मया हि, लोकान्तरगतायामम्बायां नियम्य
शोकवेगम्, आप्रसव दिवसात्परिणतवयसापि सता तैस्तैरुपायैर्मत्संवर्धन-
क्लेशमतिमहान्तमपि स्नेहवशादगणयता यत्तातेन परिपालितः, तत्सर्व-
मेकपदे विस्मृतम्। अतिकृपणा: खल्वमी प्राणाः । यदुपकारि-
णमपि तातमद्यापि क्वापि गच्छन्तं नानुगच्छन्ति । सर्वथा न कंचिन्न
खलीकरोति जीविततृष्णा । यदीदृगवस्थमपि मामयमायासयति
जलाभिलाष: । मन्ये चागणितपितृमरणशोकस्य निर्घृणतैव केवलमियं
मम सलिलपानबुद्धिः । अद्यापि दूर एव सरस्तीरम् । अस्फुटानि
हि श्रूयन्ते सारसरसितानि । दिवसस्य चेयमतिकष्टा दश वर्तते ।
रविरम्बरतलमध्यवर्ती स्फुरन्तमातपमनवरतमनलधूलिनिकरमिव विकि-
रति करैः । अधिकामुपजनयति तृपामातपस्पर्शसंतप्तपांसुपटलदुर्गमा
 
2
 
>
 
L
 
-