This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
२१५
 
आगत्य च समकालमेवानुभूतक्लेशं राजलोकमात्मसमं कृत्वा,
समारोपितराज्यभारः पुण्डरीके, कदाचिजन्मभूमि स्नेहादुज्जयिन्याम्,
कदाचिद्गन्धर्वराजगौरवेण हेमकूटे, कदाचिद्रोहिणीबहुमानेन चन्द्र-
लोके, कादम्बरीरुच्या च सर्वत्रैचापरेष्वपि ग्यतरेषु तेषु तेषु स्थानेषु,
न केवलं चन्द्रमा, परस्परावियोगेन सर्व एव सर्वकालं सुखान्यनु-
भवन्तः परां कोटिमानन्दस्याध्यगच्छन् ।