This page has not been fully proofread.

३१४
 
कादम्बरीसंग्रहः ।
 
तदेव वनमपि भवनम् ।
संप्रति सर्वगृहा-
अन्यच्च,
अन्यच्च,
 
'गन्धर्वराज, यत्रैव निरतिशयं संपत्सुखम्
तदीदृशं क्यापरत्र मया संपत्सुखं प्राप्तम् ।
ण्येव मया जामातरि ते संक्रामितानि । तद्वयस्य, वधूसमेतं तमेवा.
दाय, गम्यतां गृहसुखानुभवनाय' इति । चित्ररथस्तु तथाभिहित:,
चन्द्रापीडमादाय हेमकूटमगात् । गत्वा च चित्ररथ : कादम्बर्या सह
समग्रमेव स्वं राज्यं चन्द्रापीडाय न्यवेदयत् । पुण्डरीकायापि समं महा-
श्वेतया निजपदं हंसः । तौ तु हृदयरुचितवधूलाममात्रकेणैव कृतार्थो
न किंचिदप्यपरं प्रत्यपद्येताम् ।
 
-
 
अन्यदा निर्वृतापि कादम्बरी, विषण्णमुखी, चन्द्रापीडमूर्ति
चन्द्रमसमप्राक्षीत् - 'आर्यपुत्र, सर्वे खलु वयं मृताः सन्त: प्रत्यु-
ज्जीविता: परस्परं संघटिताश्च । सा पुनर्वराकी पत्रलेखास्माकं मध्ये
न दृश्यते । न विद्मः - किं तस्याः केवलाया वृत्तम्' इति । स तु
प्रत्यवादीत् – 'प्रिये, कुतोऽत्र । सा हि खलु मद्दुःखदुःखिनी रोहिणी
शप्तं मामुपश्रुत्य 'कथं त्वमेकाकी मर्त्यलोक निवास दुःखमनुभवसि
इत्यभिधाय, निवार्यमाणापि मया प्रथमतरमेव मच्चरणपरिचर्यायें
मर्त्यलोके जन्माग्रहीत् । इतश्च जन्मान्तरं गच्छता मया मदुपरमसमु-
न्मुक्तशरीरा पुनरपि मर्त्यलोकमवतरन्ती बलादावर्ज्यात्मलोकं विस-
जिता । तत्र पुनस्तां द्रक्ष्यसि ' इति । कादम्बरी तु तच्छ्रुत्वा रोहिण्या-
स्तयोदारतया पतिव्रततया च विस्मितहृदया, परं लज्जिता, न किंचि-
दपि वक्तुं शशाक ।
 
,
 
एवं च चन्द्रापीडस्तत्र दशरात्रं स्थित्वा, परितुष्टहृदयाभ्यां श्वशु-
राभ्यां विसर्जितः, पितुः पादमूलमाजगाम ।
 
-