This page has not been fully proofread.

१६
 
कादम्बरीसंग्रहः ।
 
क्रोडविभागेन मामवष्टभ्य तस्थौ । असावपि पापः क्रमेण शाखान्तरै :
संचरमाण:, कोटरद्वारमागत्य जीर्णासितभुजंगभोगभीषणं प्रसार्य वाम-
बाहुम्, अतिनृशंसो मुहुर्मुहुर्दत्तचञ्चप्रहारमुत्कूजन्तमाकृष्य तातमपग-
तासुमकरोत् । मां तु स्वल्पत्वाद्भयसंपिण्डिताङ्गत्वात्सावशेषत्वादायुषः
कथमपि पक्षसंपुटान्तरगतं नालक्षयत् । उपरतं च तमवनितले
शिथिल शिरोधरमधोमुखममुञ्चत् । अहमपि तच्चरणान्तराले प्रवेशित शि-
रोघरो निभृतमङ्कनिलीनस्तेनैव सहापतम् । अवशिष्टपुण्यतया तु
पवनवशसंपुजितस्य महत: शुष्कपत्रराशेरुपरि पतितमात्मानमपश्यम् ।
अङ्गानि येन मे नाशीर्यन्त । यावच्चासौ तस्मात्तरुशिखरान्नावतरति,
तावदहमत्रशीर्णपर्णसवर्णत्वादस्फुटोपलक्ष्यमाणमूर्तिः, पितरमुपरतमुत्सृ-
ज्य, नृशंस इत्र प्राणपरित्यागयोग्येऽपि काले बालतया कालान्तरभुवः
स्नेहरसस्थानभिज्ञः, जन्मसहभुवा भयेनैव केवलमभिभूयमानः, किंचिदुप-
जाताभ्यां पक्षाभ्यामीषत्कृतावष्टम्भो लुठन्नितस्ततः कृतान्तमुखकुहरा-
दिव विनिर्गतमात्मानं मन्यमानः, नातिदूरवर्तिनस्तमालविटपिनो मूल-
देशमविशम् ।
 
अवतीर्य स तेन समयेन क्षितितलविप्रकीर्णान्संहृत्य ताञ्छुक-
शिशूनेकलतापाशसंयतानाबध्य, सेनापतिगतेनैव वर्त्मना तामेव दिश-
मगच्छत् । मां तु लब्धजीविताशं प्रत्यग्रपितृमरणशोकशुष्कत्दृद-
यमतिदूरपातादायासितशरीरं संत्रासजाता सर्वाङ्गोपतापिनी बलवती
पिपासा परवशमकरोत् । अनया च कालकडया सुदूरमतिक्रान्त:
स पापकृदिति परिकन्द्रय्य, किंचिदुन्नमितकंचरो भयचकितया दृशा
दिशोऽवलोक्य, तणेऽपि चलति पुन: प्रतिनिवृत्त इति तमेव पदे पढे