This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
२१३
 
पुनः कृतनमस्कार:, शुकनासं प्रणनाम। आशी: सहस्त्राभिवर्धितश्च
तेन, आत्मनोपसृत्य यथानुक्रमं पित्रोः शुकनासस्य मनोरमायाश्च 'एष
वो वैशम्पायनः' इति पुण्डरीकमदर्शयत् ।
 
तस्मिन्नेव च प्रस्तावे, समुपसृत्य कपिजल : शुकनासमवादीत् --
' एवं संदिष्टमार्यस्य भगवता श्वेतकेतुना - अयं खलु पुण्डरीक: संघ-
र्धित एव केवलं मया । आत्मजः पुनस्तव । अस्यापि भवत्स्वेव लग्नः
स्नेहः । तत् 'वैशम्पायन एवायम्' इत्येवमवगत्य, अविनयेभ्यों निवा-
रणीयः; 'परोऽयम्' इति कृत्वा नांपेक्षणीयः । यच्चापगतशापोऽप्यात्म-
समीपं नानीतः, तत्तवैवायमिति । अन्यञ्च, आत्मानमस्मिन्ना चन्द्र-
कालीनायुषि स्थापयित्वा कृतार्थस्य, संप्रत्यस्माद्दिव्यलोकादप्युपरिष्टा-
गन्तुमुद्यतं मे सत्वाख्यं ज्योतिः' इति । शुकनासस्तु प्रत्यवादीत्-
'कपिञ्जल, सकलजगदाशयज्ञेन सता भगवता किमित्यादिष्टम् ।
सर्वथा स्नेहस्यायमसंतोषः' इत्येवंविधैश्च पूर्वजन्मवृत्तान्तानुस्मरणा-
लापैः सर्वेषामेव तेषामचेतितैव सा क्षणदा प्रभाता । प्रातरेव च
सकलगन्धर्वलोकानुगतौ समं मदिरागौरीभ्यां चित्ररथहंसौ तत्रैवाजग्म-
तु: । आगतयोश्च तयोस्तारापीडशुकनासाभ्यां सहानुभूतसंबन्धको-
चितसंवादकथयोः सहस्रगुण इव महोत्सव: प्रावर्तत ।
 
अथ प्रवर्तमान एव तस्मिन् चित्ररथस्तारापीडमवादीत्
'विद्यमाने स्वभवने किमर्थमयमरण्ये महोत्सवः क्रियते । अपि च,
यद्यप्यस्माकमयमेव परस्पराभिरुचिनिष्पन्नो धर्मो विवाह, तथापि
लोकसंव्यवहारोऽनुवर्तनीय एव । तद्गम्यतां तावदस्मदीयमव स्थानम् ।
ततः स्वभूमि चन्द्रलोकं वा गमिप्यथ' । तारापीडस्तु तं प्रत्यवादीत् -
 
www
 
w