This page has not been fully proofread.

२१२
 
कादम्बरीसंग्रहः ।
 
त्वत्प्रीत्या प्रतिपन्ना पालिता च । तदयं लोकश्चन्द्रलोकश्च ते द्रावण्य
धुना चरणतलप्रतिबद्धौ । अपि च, प्रियसख्या अपि ते महाश्वेतायाः
प्रियतमो मयैव सह विगतशाप: संजात:' इत्यभिदधत्येव चन्द्रापीड-
शरीरान्तरितवपुषि चन्द्रमसि, तादृशेनैव वेषेण - यादृशेन महाश्वेतौ-
स्कण्ठयोपरत: - तथैव कण्ठेनैकावलीं
धारयन्, अम्बरतलादवतरम्
अदृश्यत कपिञ्जलकरावलम्बी पुण्डरीकः ।
 
चन्द्रापीडस्तु तं कण्ठे गृहीत्याब्रवीत् — 'सखे पुण्डरीक, यद्यपि
प्राग्जन्म संबन्धाज्जामातासि, तथाप्यनन्तरजन्माहितसुदृत् स्नेह सद्भावेनैव
मया सह वर्तितव्यं भवता' इत्येवं वदत्येव चन्द्रापीडे, चित्ररथहंसौ
दिष्ट्या वर्धयितुं केयूरको हेमकूटमगमत् । मदलेखापि धावमाना
निर्गय मृत्युंजय जपव्यग्रस्य तारापीडस्य विलासवत्याश्च पादयोः
पतित्वा 'देव देव्या सह दिष्ट्या वर्धसे । प्रत्युज्जीवितो युवराजः समं
वैशम्पायनेन' इत्यानन्दनिर्भरमुच्चैर्जगाद । राजा तु तच्छ्रुत्वा हर्षपरवशी
विलासवती कण्ठेऽवलम्ब्य, शुकनासं कण्ठे संभावयन्, तत्रैवाग-
च्छत् । चन्द्रापीडस्तु तथा हर्षपरवशं पितरमालोक्य, पुरेष चरणयो-
रपतत् । अथ सत्वरापसृतः, तं तथा प्रणतमुन्नमय्य तारापीडोऽभ्यः
धात् 'पुत्र, यद्यपि पिताहं तव शापदोषात्स्वपुण्यैर्वा संजात:,
तथापि जगद्वन्दनीयो लोकपालस्त्वम् । अपि च, मय्यपि नमस्यो
योंऽशः, सोऽपि मया त्वय्येव संक्रामितः । तदुभयधापि त्वमेव नम-
स्कार्य:' इत्यभिदधदेव, समं राजपुत्रलोकसहस्त्रैः प्रतीपमस्य पादयोर-
पतत् । विलासवती तु तं पुनः शिरसि पुनर्ललाटे पुनश्च कपोलयो-
सुम्बित्वा, गाढतरं सुचिरमालिलिङ्ग । उन्मुक्तब मात्रा, उपसृत्य पुनः
 
www.
 
-
 
#