This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
२११
 
वण्यमयासीत् । आर्द्रस्य दारुणो द्रव इव दह्यमानस्याङ्गेभ्यो निरगम-
त्स्वेदः । एवं च विहत सर्बबाह्यक्रियस्य, तामेवाभिध्यायत:, तामेव
पश्यत:, धर्मक्रियामप्यकुर्वाणस्य, आत्मन्यपि विगलित स्नेहस्य, किं
बहुना, कादम्बरीसमागमेऽप्यनुद्यमस्य, केवलमस्य काष्ठीभूतदेहस्य, दाह-
क्षमो झटित्येवारुरोह परां कोटि कामानल: राज्ञ एव तुल्यावस्थस्य
महाश्वेतोत्कण्ठया पुण्डरीकात्मनो वैशम्पायनस्य च ।
 
3
 
तस्मिन्नेव चान्तरे, तत्संधुक्षणायेत्र सकलमेव प्रेममयमिव,
उत्सवमयमित्र, औत्सुक्यमयमिव जनयन् जीवलोकं परावर्तत सुरभि -
मास:; येन च पर्याकुलितहृदया कादम्बरी सायाने स्नात्वा निर्वर्तित
कामदेवपूजा, तस्य पुरश्चन्द्रापीडमतिसुरभिशीतलै: स्नपयित्वाम्भोभिः,
भावार्द्रया दृशा सुचिरमालोक्योत्कण्ठानिर्भरा, सहसा तमभिपत्य मुकु-
लितनयनपङ्कजा जीवन्तमिव निर्भरं कण्ठे जग्राह ।
 
V
 
चन्द्रापीड़स्य तु कादम्बरीकण्ठग्रहेण सद्यः सुदूरगतमपि कण्ठ-
स्थानं पुनर्जीवितं प्रत्यपद्यत । उष:परामृष्ठेन्दीवरमुकुललीलयोदमीलत्क-
र्णान्तायतं चक्षुः । एवं च सुप्तप्रतिबुद्ध इव प्रत्यापन्नसर्वाङ्गचेष्टश्चन्द्रा-
पीड:, तथा कण्ठलग्नां कादम्बरी कण्ठे गृहीत्वा, भयोत्कम्पमानाङ्ग-
यष्टि न मोक्तुं न ग्रहीतुमात्मना पारयन्तीमवादीत् – 'भीरु, परित्य-
ज्यतां भयम् । प्रत्युज्जीवितोऽस्मि तवैवामुना कण्ठग्रहेण । त्वं खल्वमृ-
तसंभवादप्सरसां कुलादुत्पन्ना । तदेतावन्त्येव दिनाँमि पाणिना ते
स्पृश्यमानोऽपि न यत्प्रत्युज्जीवितोऽस्मि तच्छापदोषात् । अद्य तु स मे
द्वितीयवारं व्यपगतः शाप: । परित्यक्ता सा मया त्वद्विरहदु:खदायिनी
मानुषी शूद्रकाख्या तनुः । एषापि च 'तबास्यां रुचिरुत्पन्ना' इति
 
-