This page has not been fully proofread.

तं
 
२१०
 
कादम्बरीसंग्रहः ।
 
ख्यापिता ? किमर्थं वाहं बद्ध ? बद्धो वा किमर्थमिहानीतः ? इत्यत्र
वस्तुनि अहमपि देव इवानपगतकुतूहल एव" इति ।
 
7
 
6
 
NA
 
राजा तु तच्छ्रुत्वा समुपजाताभ्यधिककुतूहल, तदाहानाय
पुरः स्थितां प्रतीहारीमादिदेश । नचिरादेव प्रविश्य सा पुरस्तादूर्ध्वस्थि-
तैव बभाषे– "भुवनभूषण रोहिणीपते, सर्वस्त्वयास्य दुर्मतेरात्मनश्च
पूर्वजन्मवृत्तान्तः श्रुत एव । अत्रापि जन्मनि यथायं निषिद्धोऽपि
पितुराज्ञामुल्लङ्घय वधूसमीपं प्रस्थितः, तथानेन स्वयमेव कथितम् ।
तदहमस्य दुरात्मनो जननी श्रीः । तथा प्रस्थितमेनं दिव्येन चक्षुषा
दृष्ट्वा अस्य पित्रा अहं समादिष्टास्मि - - 'सर्व एव ह्यविनयप्रवृत्तोऽनुता
पाद्विना न निवर्तते । तदयं ते तनयः कदाचिदस्या अपि तिर्यग्जाते-
रघस्तात्पतति । तद्यावदिदं कर्म न परिसमाप्यते, तावदेनं मर्त्यलोक
एव बद्धा धारय । यथा चानुतापोऽस्य भवति, तथा प्रतिविधेयमस्य '
इति । तदस्य विनयायेदं विनिर्मितं मया । सर्वमधुना तत्कर्म परिसमा-
सम् । शापावसानसमयो वर्तते । शापावसाने च युवयोः सममेव
सुखेन भवितव्यमिति त्वत्समीपमानीतो मयायम् । अत्रापि यच्चाण्डाल-
जाति: ख्यापिता, तल्लोकसंपर्कपरिहाराय । तदनुभवतं संप्रति द्वावपि
सममेव जन्मजराव्याधिमरणा दिदुःखबहुले तनू परित्यज्य, यथेष्टजनस-
मागमसुखम्" इस्यभिदधानैव सा झटिति क्षितेर्गगनमुदपतत् ।
 
अथ राशस्तद्वचनमाकर्ण्य संस्मृतजन्मान्तरस्य, "मकरकेतुर्जी-
वितापहरणाय प्रतिरोधक इवान्तरा पदं चकार । तत्पदाक्रान्तिनि-
र्वासितमिव कादम्बरीशरणमुपजगामान्तःकरणम् । तद्विशिखरजोरू-
षितमिव नयनयुगलमजलमुत्ससर्ज । आपाण्डुतां च सद्यो बदनला-
-