This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
२०९
 
उपनीतेऽपि च पानाशने, तं दिवसमनशनेनैवात्यवाहयम् ।
अन्येयुश्चातिक्रामत्यशनकाले मे दूयमाने च हृदये, सा स्वपाणिनोपनीय
नानाविधानि पक्वान्यपक्वानि च फलानि, सुरभि शीतलं च पानी-
यम्, स्निह्यन्तीवावोचत् - 'क्षुत्पिपासार्दितानां हि पशुपक्षिणां निर्विचा-
रचित्तवृत्तीनामुपनतेष्वाहारेष्वनुपयोगो न संभवत्येव । तत्, यद्येवं-
विधस्त्वं कोऽपि भोज्याभोज्यविवेककारी पूर्वजातिस्मरोऽस्मदीयमाहारं
परिहरसि, तथापि तावद्भक्ष्याभक्ष्यविवेकरहितायां तिर्यग्जातौ वर्तमा-
नस्य ते किं वा अभक्ष्यम् । प्रथममेवात्मा न विवेके स्थापितः ।
अधुना स्वकर्मोपात्तजातिसदृशमाचरतस्ते नास्त्येव दोषः । न चेदृशं
किंचिदव्याहाराय मयोपनीतम्, यादृशेन चाण्डालाशनशङ्का समु-
त्पद्यते । फलानि तु ततोऽपि प्रतिगृह्यन्त एव । पानीयमपि चाण्डा-
लभाण्डादपि भुवि पतितं पवित्रमेवेत्येवं जनः कथयति । तत्किमर्थमा-
त्मानं क्षुधा पिपासया वा पातयसि' इति । अहं तु तेन तस्या वचसा
विवेकेन च विस्मितान्तरात्मा, क्षुत्पिपासोपशमायाशन क्रियामङ्गीकृत
वानस्मि । मौनं तु पुनर्नात्याक्षम् ।
 
एवमतिकामति च काले, क्रमेण तरुणतामापने मयि, एकदा
प्रभातायां यामिन्याम्, उन्मीलितलोचनः, अद्राक्षमस्मिन्कनकपञ्जरे
स्थितमात्मानम् । सापि चाण्डालदारिका यादृशी, तादृशी देवेनापि
दृष्टैष । सकलमेव च तं पक्कणममरपुरसदृशमालोक्य, 'किमेतत्' इति
कुतूहलाप्रष्नुकामो यावन्न परित्यजाम्येव मौनम्, तावदेषा मामादाय
देवपादमूलमायाता । तत् केयम् ? किमर्थमनया चाण्डालतात्मनः
 
14