कादम्बरीसङ्ग्रहः /214
This page has not been fully proofread.
२०८
कादम्बरीसंग्रहः
चाण्डालदारिका दूरत एव मामालोक्य, उत्पन्नकरुणा मोचयेत् ? न
जातिसदृशमाचरिष्यति? भविष्यन्त्येवंविधानि मे पुण्यानि ? न निमेष-
मध्यत्र पदं कुर्याम्' इत्येवं कृताशंसमेव मा नीत्वा स चण्डालस्तस्यै
चण्डालदारिकायै दर्शितवान् । सा तु प्रहृष्टतरवदना स्वकरयुगेनादाय
माम् 'आ: पुत्रक, प्राप्तोऽसि । सांप्रतं क्वापरं गम्यते । व्यपनयामि
ते सर्वमिदं कामचारित्वम्' इत्यभिदधानैव मनागुद्घाटितद्वारे दारुप-
अरे समं महाश्वेतावलोकनमनोरथैराक्षिप्य, अर्गलितद्वारा 'अत्र निर्वृतः
संप्रति तिष्ठ' इत्यभिधाय, तूष्णीमस्थात् ।
,
अहं तु तथा संरुद्धश्चेतस्यकरवम्-'महासंकटे पतितोऽस्मि ।
यदि तावदावेदितात्मावस्थ: शिरसा प्रणिपत्य मुक्तये विज्ञापयाम्येनाम्,
तदा, य एच मे गुणों दोषतामापद्य बन्धायोपजात:, स एव संव-
वितो भवति । 'साधु जल्पति' इत्येवाहमनया ग्राहितः । कास्या
मदीयया बन्धनपीडया पीडा । नाहमस्यास्तनयः न भ्राता, न
बन्धुः । अथ मौनमालम्ब्य तिष्ठामि । तत्रापि शाठ्यप्रकुपिता
. कदाचिदितोऽप्यधिकामवस्था प्रापयति माम् । नृशंसतमा हि जाति -
रियम् । अथवा, वरमितोऽप्यधिकमुपजातम्, न पुनश्चण्डालैः सह
वागपि विमिश्रिता । अपि च, गृहीतमौनं निवेदात्कदाचिन्मुञ्चत्येव ।
वदंस्तु पुनर्न मोक्तव्य एवाहमनया । अपि च, यदिव्यलोकभ्रंशः,
यन्मर्सलोके जन्म, यत्तिर्यग्जातौ पतनम् यच्चाण्डालहस्तागमनम्,
यच्चेदमेबंविधं पञ्जरबन्धदुःखम्, सर्व एवायमनियतेन्द्रियत्वस्यैव दोषः ।
तत्किमेकया वाचा । सर्वेन्द्रियाण्येव नियमयामि' इति निश्चित्य,
मौनग्रहणमकरवम् ।