This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
२०७
 
अहं तु तच्छ्रुत्वा संविग्नान्तरात्मा चेतस्यकरबम् 'अहो मे
मन्दपुण्यस्य दारुणतरः कर्मणां विपाक, येन मया म्लेच्छजातिभिरपि
दूरतः परिहृतप्रवेशमधुना पक्कणं प्रवेष्टव्यम्, चण्डालबालकजनस्य
क्रीडनीयेन च भवितव्यम् । दुरात्मन् पुण्डरीकहतक, धिग्जन्मलाभं ते,
यस्य कर्मणामयमीदृश: परिणाम: । किमर्थं प्रथमगर्भ एव न सहस्त्रधा
शीर्णोऽसि' इत्येतानि चान्यानि च चेतसा विलप्य, पुनस्तमभ्यर्थ -
नादीनमवदम् – 'भद्रमुख, जातिस्मरो मुनिरस्मि जात्या । तत्तवापि
मामस्मान्महतः पापसंकटादुद्धृत्य धर्मो भवत्येवादृष्टसुखहेतुः । दृष्टेऽपि
च, केनचिदपरणादृष्टस्य मन्मुक्तिकृतः प्रत्यवायो नास्त्येव । तन्मुञ्चतु
मां भद्रमुखः' इत्यभिदधानश्च पादयोरपतम् । स तु विहस्य मामब्र-
वीत् — रे मोहान्ध, यस्य शुभाशुभकर्म साक्षिभूताः पञ्च लोकपाला-
स्तत्रैवात्मशरीरस्थिता न पश्यन्ति, सोऽन्यस्य भयादकार्य नाचरति ।
तन्नीतोऽसि मया स्वाम्याज्ञया' इति । एवमभिधान एव मामादाय
पक्कणाभिमुख मगच्छत् ।
 
endatangkatnya
 
अहं तु 'केषां पुनः कर्मणामिदं मे फलम्' इत्यन्तरात्मनाभि-
ध्यायन्, प्राणपरित्यागं प्रति कृतनिश्चयोऽभवम् । नीयमानश्च तथा
तेन, नानाविधग्राहक विहङ्गवाचालनकुशलै : कोलेयकमुक्तिसंचारण-
चतुरैश्चण्डालशिशुभिर्वृन्दशो दिशि दिशि मृगया क्रीडद्भिर्दूरत एवा-
वेद्यमानम्, सर्वतः करङ्कप्रायवृति गटम्, धवलीप्रायवाहनम्, स्त्रीम-
द्यप्रायपुरुषार्थम्, संनिवेशमिव सर्वश्मशानानाम्, पत्तनमिव सर्व-
पापानाम्, स्मर्यमाणमपि भयंकरं, पक्कणमपश्यम् ।
 
दृष्टवा च तं समुत्पन्नघृणोऽन्तरात्मन्यकरवम् – 'अपि नाम सा