This page has not been fully proofread.

२०६
 
कादम्बरीसंग्रहः ।
 
" गमनक्षमस्तु संवृत्तोऽस्मि । तन्न नाम चन्द्रापीडोत्पत्तिपरिज्ञानम् ।
महाश्वेता पुनः सैवास्ते । भवतु, तत्रैव गत्वा तिष्ठामि' इति निश्चित्य,
एकदा प्रातर्विहारनिर्गत एवोत्तरां ककुभं गृहीत्वावहम् । अबहुदिव -
साभ्यस्तगमनतया स्तोकमेव गत्वा, अवाशीर्यन्तेव मेऽङ्गानि श्रमेण ।
तदवस्थश्च शिथिलायमानपक्षति:, 'अत्र पतामि, अत्र पतामि' इति
परवानेवान्यतमस्य सरस्तीरतरुनिकुञ्जस्योपर्यात्मानममुञ्चम् । चिरादिवो-
न्मुक्ताध्वक्रमः, अच्चश्रम निःसहान्यङ्गानि विश्रमयितुमन्यतमां शाखा-
मारुह्य स्थितः सन्, अध्वश्रमसुलभां निद्रामगच्छम् । चिरादिव च
लब्धप्रबोधो बद्धमात्मानमपश्यम् । अग्रतश्च पाशविरहितमिव काल-
पुरुषम्, आशय केशेषु चास्निग्धम् वपुषि वचसि च परुषम्,
पुरुषमद्राक्षम्। आलोक्य च तं तादृशम्, आत्मन उपरि निष्प्रत्याश
एवापृच्छम् · भद्र, कस्त्वम् ? किमर्थं वा त्वया बद्धोऽस्मि ? यदि
 
A
 
न च
 
आमिषतृष्णया, तत्किमिति सुप्त एत्र न व्यापादितोऽस्मि । किं मया
निरागसा बन्धदुःखमनुभावितेन । अथ केवलमेव कौतुकात्, ततः
कृतं कौतुकम् । मुञ्चतु मामिदानीं भद्रमुखः' । एवमुक्तः स मामुक्त-
वान्-'महात्मन्,
'महात्मन्, अहं खलु क्रूरकर्मा जात्या चाण्डाल: ।
मया त्वमामित्रलोभेन कुतूहलेन वा बद्धः । मम खलु स्वामी पकणा-
धिपतिः । तस्य दुहेता कौतुकमयं प्रथमे वयसि वर्तते । तस्यास्त्वं
केनापि दुरात्मना कथितः । तया च श्रुत्वा
कथितः । तया च श्रुत्वा, उत्पन्न कौतुकात्त्वद्हणाय
बहव एवापर मादृशाः समादिष्टा: । तदद्य पुण्यैर्मयासादितोऽसि ।
तदहं तत्पादमूलं त्वां प्रापयामि । बन्धे मोक्षे चाधुना सा प्रभवति'
इति ।
 
-