This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
२०५
 
व्योऽसौ – वत्स, यावदिदं कर्म परिसमाप्यते, तावत्वयास्मिन्नेव
जाबाले: पादमूले स्थातव्यम्' इति । अपि च, त्वदु:खदुःखिताम्बा ते
श्रीरपि तस्मिन्नेव कर्मणि परिचारिका वर्तते । तया तु शिरस्युपाघ्राय,
एतदेव पुन: पुन: संदिष्टम्" ।
 
एवमुक्त्वा दूयमानहृदयं तमवदम् – 'सखे कपिञ्जल, किं
दूयसे । त्वयापि मन्दपुण्यस्य मम कृते तुरङ्गमतामापन्नेन पराधीनवृ-
त्तिना बहुतराण्येव दुःखान्यनुभूतानि । कथं सोमपानोचितेनामुनास्येन
समुत्पादितसफेनरक्तस्रवाः खरखलीनक्षतयो विसोढाः । कथं च
ब्रह्मसूत्रोद्वाहिनि देहेऽस्मिन्वर्धोत्पीडनकृता: पीडा: समुपजाता:' इति ।
एमिरन्यैश्च पूर्ववृत्तान्तालापैस्तत्कालविस्मृततिर्यग्जातिदुःखः सुख-
मतिष्ठम् ।
 
उपरोहति च मध्याह्नं सवितरि, कृताहार: कपिञ्जल: क्षणमित्र
स्थित्वा मामब्रवीत् - 'अहं हि तातेन त्वा समाश्वासयितुम् जाबा-
लिपादमूलात् / आ कर्मपरिसमाप्तेर्न त्वया चलितव्यमित्येतच्चादेष्टुं विस-
र्जितः । अन्यत्, अहमपि तत्रैव कर्मणि व्यग्रतर एव । तद्वजामि
संप्रति' इति । अहं तु तच्छ्रुत्वाविषण्णवनस्तं प्रत्यबदम् - 'सख
कपिञ्जल, एवं गते किं ब्रवीमि । किं तातस्याम्बाया वा संदिशामि ।
सर्वे त्वमेव वेत्सि' इति । स त्वेवमुक्तो मया, पुन: पुनस्तत्रावस्थानाय
मां संविधाय, अन्तरिक्षमतिक्रम्य, क्वाप्यदर्शनमगात् । गते च
तस्मिन्, हारीतो निर्वर्तितस्नानादिक्रियाकलापः सन्, आत्मनैव
सहापराह्णसमये पुनर्मामाहारमकारयत् ।
 
एवं संवर्धमानः, कतिपये रेव दिवसैरुत्पन्नोत्पतनसामर्थ्य:,
 
>