This page has not been fully proofread.

२०४
 
कादम्बरीसंग्रहः ।
 
एवं जन्मयान्तरितदर्शनमपि त्वां दृष्टा कि सरभसमुत्थाय दूरत एवं
प्रसारितभुजद्वयो गाढालिंङ्गनेन सुखमनुभविष्यामि । किं करेणावल-
म्ब्यासनपरिग्रहं कारयिष्यामि' इति । एवमात्मानमनुशोचन्तमेव मां
कपिञ्जलः करद्वयेनोत्क्षिप्य, भूयसा मन्युवेगेनोत्तमाङ्गे कृत्वा मञ्चरणौ,
इतरवदरोदीत् ।
 
'सखे
 
तथा रुदन्तं तु तं वाङ्मात्रप्रतीकारः पुनरवदम्
कपिञ्जल, सकलक्लेशपरिभूतस्य पापात्मनो ममेदं युज्यते यत्त्वया
प्रारब्धम् । त्वं पुनर्बालोऽपि न स्पृष्ट एवामीभिः संसारबन्धात्मकैर्दोषैः ।
तत्किमधुना मूढजनगतेन वर्त्मना । समुपविश्य तावत्कथय यथावृत्तं
वार्ताम् । अपि कुशलं तातस्य ? महत्तान्तमाकर्ण्य किमुक्तवान् ?
कुपितः, न वा ?' इति ।
 
स त्वेवमुक्तो मया, प्रक्षाल्य मुखमाख्यातवान् – "सखे कुशलं
तातस्य । अयं चास्मवृत्तान्त: प्रथमतरमेव तातेन दिव्येन चक्षुषा
दृष्ट: ४ दृष्टा च प्रतिक्रियायै कर्म प्रारब्धम् । समारब्ध एव कर्मणि,
तुरगभावाद्विमुक्तो गतोऽस्मि तातस्य पादमूलम् । गतं च मां भयाद-
नुपसर्पन्तमालोक्याहूयाज्ञापितवान् 'वत्स कपिञ्जल, परित्यज्यतां
स्वदोषङ्कङ्का । ममैवायं खलु शठमते: सर्व एव दोष:; येन जानता -
व्युत्पत्तिसमय एव वत्सस्य कृते नेदमायुष्करं कर्म निर्वर्तितम् । अधुना
सिद्धप्रायमेवेदम् । न दुःखासिका भावनीया । मत्पादमूले तावत्स्थीय-
ताम्' इति । अद्य च प्रातरेवाहूय मामाज्ञापितवान् 'वत्स कपि-
अल, महामुनेर्जाबालेराश्रमपदं सुहृत्ते प्राप्तः । जन्मान्तरस्मरणं चास्यो-
पजातम् । तद्गच्छ संप्रति तं द्रष्टुम् । मदीयया चाशिषानुगृह्य वक्त-
-