This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
२०३
 
श्रोत्रहारी विहंगमानाम् । प्रत्यासन्ना अग्निविहारवेला' इत्यभिधान एव
गोष्ठीं भङ्क्त्वोदतिष्ठत् ।
 
,
 
अथोत्थिते भगवति जाबालौ, वीतरागापि समस्तैव सा तपस्वि-
परिषत् कथारसाद्विस्मृतगुरू चितप्रतिपत्ति:, शृण्वतीवोत्कण्टकित-
काया, स्तम्भितेव चिरमिव स्थित्वा यथास्थानं जगाम । हारीतस्तु
मामात्मपर्णशालां नीत्वा, प्राभातिकक्रियाकरणाय निर्ययौं । निर्गते च
तस्मिन् तेन सर्वकार्याक्षमेण तिर्यग्जातिपतनेन पीडितान्तरात्मा,
चिन्तां प्राविशम् – 'अत्र तावदनेकभवसुकृतशतसहस्राधिगम्यं मानु-
ष्यकमेव दुर्लभम् । तत्राप्यपरं सकलजातिविशिष्टं ब्राह्मण्यम् । ततोऽपि
विशिष्टतरमासन्नामृतपदं मुनित्वम् । तस्यापि विशेषान्तरं किमपि
दिव्यलोकनिवासित्वम् । तद्येनैतात्रतः स्थानात्स्वदोपैरात्मा पातितः,
तेन कथमधुना सर्वक्रियाविहीनेनास्यास्तिर्यग्जाते: समुद्धृत: स्यात् ।
तन्निष्प्रयोजनेनामुना जीवितेन किं मे परिरक्षितेन । तत्परित्यजाम्येत-
च्छरीरम् । पूर्यतामस्मद्र्यसनदानैक चिन्तादुः स्थितस्य विधेर्मनोरथः'
इति । एवं च जीवितपरित्याग चिन्तानिमीलितं मां समुच्छ्रासयन्निव
हारीतोऽभ्यधात् – 'भ्रातर्वैशम्पायन, दिष्ट्या वर्धसे । पितुस्ते भगवतः
श्वेतकेतो: पादमूलात्कपिञ्जलस्त्वामेवान्विष्यन्नायातः' इति ।
 
अहं तु तच्छ्रुत्वा 'क्वासौ' इति वदन्नेव, अग्रतो गगनागमन-
वेगात् अयथास्थितजटाकलापम्, मदवलोकनदुःखोद्गतं च बाष्पजल-
लवविसरमीक्षणाभ्यां युगपदुत्सृजन्तम् समुज्झितक्लेशमपि मदर्थे
क्लिश्यन्तम् कृतज्ञम् अकृतज्ञः, वचनकरम् अनाश्रवः, महात्मानं
दुरात्मा, कपिञ्जलमद्राक्षम् । दृष्टा च तमवदम्
'सखे कपिञ्जल,
 
,
 

 
"
 
www.m
 
k