This page has not been fully proofread.

२०२
 
कादम्बरीसंग्रहः ।
 
·
 
स्मृताः खलु मया सर्व एव पूर्वबान्धवाः । स्मृत्वा च तान् स्फुटतीव मे
हृदयम् । न च तास्मृत्वापि तथा यथा चन्द्रापीडम्; यस्य मदुपर-
तिश्रवणमात्रकात्स्फुटितं हृदयम् । तत्तस्यापि जन्माख्यानेन प्रसादं
करोतु भगवान्, येनायं तिर्यग्योनिवासोऽपि मे तेन सहैकत्र वसतो
न पीडाकर: संजायते' इति । एवं च विज्ञापितो भगवान् जाबालि:
सस्नेहको पगर्ने प्रत्यवादीत् - 'दुरात्मन्, ययैतावतीं दशामुपनीतोऽसि,
कथं तामेव तरलहृदयतामनुबध्नासि । अद्यापि पक्षावपि नोद्भिद्येते ।
तत्संचरणक्षमस्तु तावद्भव । ततो मां प्रक्ष्यसि' इति । एवमुक्ते भग-
वता, समुपजातकुतूहलो हारीत: पप्रच्छ 'तात, महानयं विस्मयो
मे । कथय, कथमस्य मुनिजातौ वर्तमानस्य तादृशी कामपरता जाता ?
यथा जीवितमपि न संधारयितुं पारितम् । कथं च दिव्यलोकसंभूतस्य
तथा स्वल्पमायुः संवृत्तम् ?" ।
 
एवं च पृष्टः सूनुना भगवाञ्जाबालि: प्रत्यवादीत् –'स्पष्टमेवात्र
कारणं वत्स । अयं हि कामरागमोहमयादल्पसारात्स्त्रीवीर्यादेव केवला-
दुत्पन्न: । श्रुतौ च पठ्यत एतत् – यादृशा जायते, तादृगेव भव-
तीति । लोकेऽपि च प्राय: कारणगुणभाञ्जयैव कार्याणि दृश्यन्ते ।
तथा चैतदायुर्वेदेऽपि श्रूयते । तदयमुत्पन्न एवेदृशः, येनास्य तादृशी
कामपरता जाता, मरणं च तथोपनतम् । अधुनापि तादृश एवाल्पा-
युरयम् । शापावसानोत्तरकालमस्याक्षयेणायुषा योगो भविष्यति ।
तावदियं कथास्ताम् । रसाक्षेपादचेतितैवास्माभिः प्रभातप्राया रजनी ।
प्रभाविरहादनुन्मृष्टरजतदर्पणाभमिदमपरान्तावलम्बि वर्तते रजनिकर-
बिम्बम् । एष पम्पासरःशायिनां प्रबोधाशंसी समुच्चरति कोलाहल :
 
-