This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
२०१
 
मनोरथं पूरयितुम् । तदस्य वस्तुनः कृते भवन्तो मया प्रार्थनीयाः '
इत्युक्त्वा, संनिहितान्यपि परित्यज्योचितानि सर्वसुखानि, अनुचिता-
न्यङ्गीकृत्य वन्यानि,
तथा हि हर्म्यबुद्धि वृक्षमूलेषु, संस्तुत-
जर्नस्नेहं हरिणेषु, आहारहार्द कन्दमूलफलेषु, नर्मालापं धर्मसंक-
थासु, तनयस्नेहं तरुषु संक्रमय्य, तथा तपस्विजनोचिताः क्रिया:
कुर्वन्, अविच्छेदात्सायं प्रातश्चानुभूतचन्द्रापीडदर्शनसुखो दुःखान्यग-
णयन्, नरपति : सपरिवार: समं देव्या शुकनासेन च तत्रैवातिष्ठत् "
इति ।
 
ww
 
,
 
,
 
एवं च कथयित्वा भगवान् जाबालि: जराभिभवविच्छायं स्मितं
कृत्वा ताञ्छ्रावकानवादीत् - 'दृष्टमायुष्मद्भिरिदमन्तःकरणापहा-
रिण: कथारसस्याक्षेपसामर्थ्यम् । यत्कथयितुं प्रवृत्तोऽस्मि, तत्परि-
त्यज्यैव कधारसात्कथयन्नतिदूरमतिक्रान्तोऽस्मि । तत् यः स कामो-
पहतचेता: स्वयंकृतादेवाविनयादिव्यलोकतः परिभ्रश्य, मर्त्यलोके वैश-
म्पायननामा शुकनाससूनुरभवत्, स एवैष पुन: स्वयंकृतेनाविनयेन
कोपितस्य पितुराकोशात् महाश्वेताकृताच सत्याभिध्यानादस्यां शुकजातौ
पतितः' इति ।
 
-
 
एवं वदत्येव भगवति जाबालौ, बाल्येऽपि मे सुप्तप्रबुद्धस्येच
पूर्वजन्मान्तरोपात्ता: समस्ता एव विद्या जिह्वाग्रेऽभवन् । उपदेशाय
मनुजस्येव चेयं विस्पष्टवर्णाभिधाना भारती संपन्ना । किं बहुना ।
मनुष्यशरीरात् ऋते सर्वमन्यत्तत्क्षणमेव मे महाश्वेतानुरागादिकमुपग-
तम् । तथा चोत्सुकान्तरात्मा भगवन्तं जाबालिं कथमपि शनैः
शनैर्व्यशापयम् -- 'भगवन्, त्वत्प्रसादादाविर्भूतज्ञानोऽस्मि संवृत्त: ।