कादम्बरीसङ्ग्रहः /204
This page has not been fully proofread.
१९८
कादम्बरीसंग्रहः ।
जीवी राजपुत्रलोकस्तत्पादमूलादागत : ' इति । सा तु तदाकर्ण्य, किंचि-
दात्मपाणिनैवोत्सारितावरणसिचयाञ्चला
निश्चलया दृष्ट्या चिरमिवा-
वलोक्य तनयनिर्विशेषं राजपुत्रलोकम्, धैर्यमुन्मुच्य, उच्चैरारटितवती-
'हा वत्स, कथं सहपांसुक्रीडितस्यैतावतो राजपुत्रलोकस्य मध्ये त्यमे -
वैको न दृश्यसे' इति । तथारटन्तीं तु तां समाश्वास्य, राजा मेघ-
नादमप्राक्षीत् –' मेघनाद, कथय, को वृत्तान्तो वत्सस्य' इति । स
-
तु व्यज्ञापयत् – 'देव, चेतनाविरहाच्चेष्टामात्रकमेत्रापगतम् । शरीरे
पुनः, ज्ञायते -- दिवसे दिवसेऽभ्यधिका कान्ति: समुपजायते' इति ।
राजा तु तच्छ्रुत्वा, जीवितप्रतिलम्भे समुपजातप्रत्याशः, 'श्रुतं देव्या
मेघनादस्य वचनम् ? तदेहि, चिरात्पुनः कृतार्थयामो दर्शनेनात्मानम् ।
पश्यामो वत्सस्य वदनम्' इत्यभिदधान एवाभिवर्धित गतिविशेषया
करेवा महाश्वेताश्रममगमत् ।
Spoday
अथ सहसैव तच्चन्द्रापीडगुरुजनागमनमाकर्ण्य, धावित्वा हिया
महाश्वेता गुहाभ्यन्तरमविशत्; चित्ररथतनयापि मोहान्धकारम् ।
तदवस्थयोश्च तयोः शुकनासावलम्बितशरीरो राजा विवेश श्रमपदम्;
तदनु मनोरमावलम्बिता विलासवती । प्रविश्य च सहजयैव कान्त्या
अविरहितमुपरतसर्वप्रयत्नं सुप्तमिव तं पुत्रवत्सला तनयमालोक्य,
यावन्त्र परापतत्येव तारापीड:, तावद्विलासवती विधारयन्तीं मनोरमा -
मध्याक्षिप्य दूरत एवं प्रसारितबाहुलताद्वया 'एहि जात दुर्लभक,
चिराष्टोऽसि । देहि मे प्रतिवचनम् । आलोकय सकृदपि माम् ।
अनुचितं तात, तवैतदवस्थानम् । उत्थायाङ्कोपगमनेन मे संपादय
तनयोचितं स्नेहम् । न चानाकर्णितपूर्व बाल्येऽपि त्वया मम वचनम् ।