This page has not been fully proofread.

कादम्बरीसंग्रहः ॥
 
१९७
 
6
 
पुनराशानिबन्धनस्य गमनमपि हृदयस्य तावद्विनोदतां व्रजतु' इति
बदन्तीमेव विलासवतीमासाद्य, अन्यतमः परिणतवया: षट्कर्मा समुप-
सृत्य स्वस्तिपूर्वकं व्यज्ञापयत् देवि, सर्वत एवापरिस्फुटेन वार्ता-
कलकलेनाकुलीकृतहृदया मनोरमा स्वयमेम धावन्त्यागता । राज्ञो
लज्जमाना नोपगता स्थानमिदम् । तदेषा मातृगृहस्य पृष्ठतस्तिष्ठति ।
पृच्छति च देवीम् – किमेभिः कथितम् ? जीवति वा मे वत्सो वैश-
म्पायन: ? स्वस्थशरीरो वा? ढौकितो वा पुनर्युवराजस्य ? क्व वर्तते ?
तावागमिष्यतो वा? कियद्भिर्दिवस : ?' इति ।
'देवि, न
 
राजा तु दीर्ण इव शुचा, विलासवतीमवादीत्
श्रुतं किंचिदपि वत्सयोः प्रियसख्या ते । अन्यतश्च श्रुत्वा कदाचि-
ज्जीवितेनैव वियुज्यते । तदुत्तिष्ठ, स्वयमेव धैर्यमालम्ब्य, सर्ववृत्तान्ता-
नुकथनेन संस्थापय प्रियसखीम् । तयाप्यार्यशुकनासेन सहायातव्यम्'
इत्येवमुक्त्वा, विलासवतीं व्यसर्जयत् । आत्मनापि शुकनासेन सह
गमनसंविधानमकारयत् ।
 
अत्ताम्यता हृदयेन राजा संततम विच्छिन्नकै प्रयाणकैर्वहन्,
अबहुभिरेव दिवसैराससादाच्छोदम् । आसाद्य च दूरस्थित एव प्रथम-
माप्ततमानश्ववारान्चार्तान्वेषणाय त्वरितकेन सार्धं प्रहितवान् ।
 
अथ तैः सार्धमागच्छन्तम्, परस्परावरणेनैवात्मदर्शनमभिरक्ष-
न्तम्, अक्षतमपि हतमित्र, जीवन्तमपि मृतमित्र, मेघनादपुरःसरं
सकलमेव उपसर्पन्तं राजपुत्रलोकमालोक्य, उच्छुसित इव निवृत्य
सावरणपर्याणवर्तिनीं विलासवतीमवादीत् – 'देवि, दिष्ट्या वर्धसे ।
घ्रियते सत्यमेव शरीरेण वत्स, येन सकल एवायं तच्चरणकमलानु-