This page has not been fully proofread.

१९६
 
कादम्बरीसंग्रहः ।
 
>
 
-
 
पुनर्जी-
कारणमावे-
स्वप्ने पुण्डरीकस्य दर्शनं समुपजातम् । तत् उत्पत्ति प्रति तयोर्ना -
स्त्येव संदेहः । विनष्टयो: शरीरस्याविनाशः कथम्, कथं वा
वितप्रतिलम्भ इत्यत्राप्यखिललोकप्रख्यातप्रभावममृतमेवैकं
दितम् । तच्चन्द्रमसि विद्यत इत्येषास्त्येव वार्ता । तत्सर्वमेतदित्थमेवा-
वगच्छतु देवः । तयोरेवं शापः, अस्माकं पुनर्वर एव । तदस्मिन्वस्तुनि
मनागपि न देवेन देव्या वा शोकः कार्यः । अपरमपि, यद्यदेवं गते
श्रेयस्करं श्रूयते, ज्ञायते वा, तत्तदद्यैवारभ्य क्रियतां कार्यतां च कर्म ।
न खलु वैदिकानामवैदिकानां वा कर्मणामसाध्यं नाम किंचिदपि ।
उत्पत्तिरपि तयोः कृच्छ्रलब्धयोरीदृशेनैव प्रकारेणोपजाता' ।
 
इत्युक्तवति शुकनासे, सशोक एव राजा प्रत्यवादीत् - 'सर्वमेव -
मेतत्, यदार्येणाभिहितम् । कोऽन्यो बुध्यते । केन वापरेण वयं
परिबोधनीयाः । किं तु तद्वत्सस्य मे वैशम्पायनदुःखात्स्फुटनं हृदय-
स्याग्रतो दृष्टिलग्नं सर्वमेवान्यदन्तरयति । तदेवमप्रत्यक्षिते वत्सस्य
. वदने, संस्तम्भमेनात्मनो न शक्नोमि कर्तुम् । यत्र च ममायमीदृशः
प्रकार :, तत्र देव्याः परिबोधनं दूरापेतमेव । तद्गमनात् ऋतेऽन्य
उपाय एव नास्ति जीवितसंधारणायेत्यवमवधारयत्वार्यः' इत्युक्तवति
तारापीडे, चिरात्तनयपीडया तत्पुर: परित्यज्य लज्जां विलासवती
कृताञ्जलिरुच्चैर्जगाद – 'आर्यपुत्र, यद्येवम्, किमपरं विलम्बितेन ।
उत्ताम्यति मे हृदयं वत्सस्य दर्शनाय । दुःखापनोदार्थो स्फुटनमङ्गीकृ
तमासीत् । तदपि संप्रति दर्शनकाङ्क्षया न रोचत एव । जानामि--
वरं दीर्घकालमपि दुःखान्यनुभवन्ती सकृदपि वत्सस्य दर्शनाय जीवि-
तास्मि; न पुनरसह्यदु:खोपशान्तये संप्रत्येव मृतास्मीति । तदस्य