This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१९५
 
$
 
तारापीडस्तु तदद्भुतमाकर्ण्य, दत्तावधानतेन कथ्यमानं यथा-
दृष्टं यथाश्रुतं च निरवशेषं तत्सर्वमश्रौषीत् । श्रुत्वा च तमनेकचिह्नो-
त्पादितप्रत्ययं युवराजवैशम्पायनयोवृत्तान्तम् ईषदिव विवर्तिताननः,
विमर्शस्तिमिततारकां दृष्टि निर्विशेपावस्थे शुकनासमुखेऽभ्यपातयत् ।
सुहृदस्तु स्वयं दुःखिता अपि निधानीकृत्यात्मदुःखम् सुहृहु:खापनो-
दायैव यतन्ते । यतः शुकना सस्तदवस्थोऽपि स्वस्थवदवनिपतिमुवाच-
'देव, विचित्रेऽस्मिन्संसारे, अनेकप्रकारमुत्पद्यमानस्य तिष्ठतो विन-
`इयतो वा स्थावरजङ्गमस्य न कदाचिदवस्था सा, या न संभवति ।
तत्कुतोऽयं देवस्यात्र वस्तुनि विमर्श: । यदि युक्तेर्विचारात्, किय-
न्त्यत्र युक्तिरहितान्यागमप्रामाण्यादेवाभ्युपगतान्यविसंवादीनि दृश्यन्ते ।
मुद्राबन्धात् ध्यानाद्वा विषप्रसुप्तस्योत्थापने कीदृशी युक्ति:, अयस्का-
न्तस्य चायसः समाकर्षणे भ्रमणे वा, मन्त्राणा वैदिकानामवैदिकानां
बानेकप्रकारेषु कर्मसु सिद्धौ । आगमेषु सर्वेष्वेव पुराणरामायणभार-
तादिषु सम्यगनेकप्रकाराः शापत्रार्ता: । तद्यथा - महेन्द्रपदवर्तिनो
नहुपस्य राजर्षेरगस्त्यशापादजगरता । असुरगुरुशापाच्च ययातेस्तारुण्य
एव जरसा भङ्गः । त्रिशकोश्च पितृशापाञ्चण्डालभाव: । तिष्ठतु
तावदन्य एव । योऽयमादिदेवो भगवानजः, स एव जमदग्नेरात्मज-
तामुपगतः; श्रूयते च – पुनश्चतुर्थात्मानं विभज्य, राजर्षेदर्शरथस्य,
तथैव मधुरायाँ वसुदेवस्य। तन्मनुष्येषु देवतानामुत्पत्तिर्नैवासंभाविनी।
न च पूर्वमनुष्येभ्यां गुणैः परिहीयते देवः । न चापि भगवतः कम-
लनाभादतिरिच्यते चन्द्रमा: । किमत्रासंभावनीयम् । अपि च, गर्भार-
म्भसंभवे देवेन देव्या वदने विशंश्चन्द्रमा एव दृष्टः । तथा ममापि
 
,