कादम्बरीसङ्ग्रहः /200
This page has not been fully proofread.
१९४
कादम्बरीसंग्रहः ।
पृष्ट एवेति । तत् तं तु तावत्पृच्छामः । ततो जीवितमरणयोरन्यतर-
दङ्गीकरिष्यामः' इत्यभिवदत्येव राजनि, परिजनान्तरितं त्वरितकमाइय
प्रतीहारो दर्शितवान् ।
'भद्र, कथय, किं वृत्तं वत्सस्य, येन आगमनाय मया तन्मा
त्रामात्येन च लिखितेऽपि नायातः । अनागमनकारणं वा किंचिन्न
प्रतिलेखितवान्' इत्येवमादिष्टो राजा त्वरितकः, गमनतः प्रभृति यथा-
वृत्तं कथयितुमारेभे । राजा तु चन्द्रापीडहृदयस्फुटनवृत्तान्तं यावदा-
कर्ण्य, अतिक्षुभितशोकार्णवाक्रान्तिविक्लबः, प्रसार्य करम्, आर्तस्वर-
स्त्वरितकमवादीत्—'भद्र, विरम । संप्रति कथितं त्वया कथनीयम् ।
मयापि श्रुतम्, यच्छ्रोतव्यम् । पूर्णो मे प्रश्नदोहदः । आनन्दितं हृद-
यम् । सुखं स्थितोऽस्मि । हा वत्स, त्वयैकाकिना स्फुटतो हृदयस्यानु -
भूता वेदना । निर्व्यूढा त्वया वैशम्पायनस्योपरि प्रीतिः । एवं दुःखभा-
गिनो निस्त्रिंशाः कर्मचाण्डाला:, येषां तवापि हृदयस्फुटने निर्वि-
कारत्वमेव । देवि, वज्रसारतोऽपि कठिनतरमेवेदमावयोर्हृदयम्, यन्न
स्वयं सहस्रधा स्फुटति । तदुत्तिष्ट, यावदेवातिदूर न
वत्सः, तावदेवानुगमनाय प्रयतामहे । शुकनास, किमद्यापि तिष्ठसि ।
अयं स काल: स्नेहस्य । महाकालायतनसमीपे समादिश सपदि
परिचारकांश्चितारचनाय । यात यथाभूमि भूमिपतय: । उत्सृष्टाः
स्थ । यथा च नाद्यैवानाथतादुःखं जानन्ति प्रजाः, तथा करिष्यथ
इत्येवमार्तप्रलापिनं तारापीडं त्वरितको व्यज्ञापयत् 'देव, स्फुटि-
की
तेऽपि हृदये, प्रियते शरीरेण युवराज: । शापदोषाद्वैशम्पायनस्य युव
राजस्य च यथा जन्म, तथा निरवशषं शृणोतु तावदेवः' इति ।
MC