This page has not been fully proofread.

१९२
 
कादम्बरीसंग्रहः ।
 
आलोक्य तस्मिन्नेव मातृगृहाङ्गणे स्थित्वा, शून्यशरीरान्निर्जीवि
तानिवोपसर्पतस्तान् गद्गदतरमुच्चैरकृतप्रणामानेवावादीत् - 'भद्राः,
कथयताशु वत्सस्य मे वार्तामात्रम् । इदं त्वन्यथैव किमपि कथयति
मे हृदयम्' इति । एवं पृष्टान् 'देवि, दृष्टोऽस्माभिरच्छोदसरस्तीरे युव
राजः । शेषमेष त्वरितको निवेदयिष्यति' इत्यभिवदत एव तानुद्राष्प-
मुखी प्रत्युवाच – 'किमपरमयं तपस्वी निवेदयिष्यति । दूरतः प्रभृत्य-
पसृतप्रहर्षेणैवोपसर्पणेन, प्रतिलेखमालिकाशून्यैः शिरोभिः, यदावेदयि-
-
तव्यम्, तद्भवद्भिरेवावेदितम्' ।
 
g
 
10-
May
 
" हा वत्स जगदेकचन्द्र चन्द्रापीड, किं भूतं ते, येन नाग--
तोऽसि । तात चन्द्रापीड, पीडिता ब्रवीमि, न कोपादुपालभमाना-
न युक्तमेतत्तव 'अम्ब न परिलम्बं मनागपि करोमि' इति तथा मे
पुर: प्रतिज्ञायान्यत्र क्वाप्यवस्थातुम् । वत्स, गच्छत एव ते मयास्य
हतहृययस्य शङ्कयैव ज्ञातम्- दुष्करं मे वत्सस्य पुनर्मुखावलोकन-
मिति । बलाद्गतोऽसि । किं करोमि । को वात्र दोषो वत्सस्य । मन्द-
भाग्याया ममैवैतान्यपुण्यानां विलसितानि । भवन्त्यपुण्यवसोपि लोके,
न पुनर्मया सदृशी पापकारिणी; यस्यास्त्वमेक एवमकाण्ड एवाच्छिद्य
क्यापि नीतोऽसि । विप्रलब्धास्मि दग्धवेधसा । वत्स, सुदूरस्यापि
पादयोः पतामि ते । निवर्तस्यैकवारम् । 'अम्ब' इत्यालपतस्ते वदन-
मालोकयितुमुत्कण्ठितं मे हृदयम् । न वेद्मि किमपि - प्रियतया ते,
किमाकृते: प्रत्ययात्, उत स्त्रीजनसहभुवो मूढभावादेवेति, अद्यापि
न श्रदधाति मे हृदयमनिष्टं ते; येन न सहस्रधा स्फुटति । तात, किं
ब्रवीपि, यथा – 'किमनेन सुतस्नेहानुचितेन लोकजाकरेण वैलव्येन'