This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१९१
 
जादुपरति: खल्ववश्यंभाविनी प्राणिनां कथंचित्प्रत्ययमुत्पादयति ।
शरीराविनाश: पुन: प्राणैर्विनाकृतानां दृश्यमानोऽप्यश्रद्धेय एव ।
तदस्यावेदनेन सुदूरस्थितमपि गुरुजनं मरणसंशये निक्षिप्य वर्तमाने
प्रयोजनमेव नास्ति । प्रत्यागतजीविते जीवितेश्वरे, स्वयमेवायमत्यद्भु-
तोऽर्थो गुरुजनेष्वाप्रकटीभविष्यति' इत्यादिश्य, किञ्चिद्वमृश्य, मेघ-
नादमब्रवीत् – 'मेघनाद, वेद्मि, संस्तुजनस्यैतदनुचितमिति । तथापि
गुरूणां चेत: पीडामवेक्षमाणया मयैवमभिहितम् । कथ्यतां वास्तवं
वृत्तम् । परं तु एभिः सहापरः कश्चिच्छ्रद्धेयवचा: संप्रत्ययाय व्रजतु' ।
इत्येवमादिष्टस्तु मेघनादः, त्वरितकनामानं कुमारबालसेवकमाहूय तैः
सह व्यसर्जयत् ।
 
}
 
?"
 
अथ सुबहुदिवसापगमे वार्ता विनोत्ताम्यन्ती चन्द्रापीडस्यै-
बागमनायोपयाचितं कर्तुमवन्तिमातृणामायतनं गता विलासवती,
'देवि, दिष्ट्या अर्धसे । प्रसन्नास्तेऽवन्तिमातरः । परागता युवराज-
वार्ताहराः' इति सहसैव संभ्रमप्रधावितात्परिजनादुपश्रुत्य, 'केन दृष्टा: ?
कियद्दूरे वर्तन्ते? किं वा तैः कथितं कुशलं मे वत्सस्य ?' इति प्रच्छ-
न्त्येवाद्राक्षीत् इतस्ततो यथादर्शनं संवश: प्रभावितेन नरपतिप्रतिबद्धे-
नाप्रतिबद्धेन चोजयिनीनिवासिना जनेन 'आगतो न युवराज: ?
कियद्दूरे भवद्भिः परित्यक्तः? दिवसेष्वेषु क्व वर्तते? क्व वा भवद्भि-
र्यात्वा दृष्ट: ? यदर्थमयं क्लेश: कृतो युवराजेन, स दृष्टो वैशम्पायनः,
प्रत्यानीतो वा ?' इत्येतानि चान्यानि च प्रतिपदं पृच्छयमानानध्यद-
त्तवचसः, संदर्भानिय सर्वदु:खानाम्, दूरत एक त्वरितकसमेतांस्तान्
लेखहारकान् ।