This page has not been fully proofread.

१९०
 
कादम्बरीसंग्रहः ।
 
तेऽस्मान्मन्युनिर्भरा: प्रत्यवदन् – 'यथा भवद्भिः कथितम्, तत्तथा ।
तिष्ठतु तावत्क्रमागतस्नेहो भक्तिस्नुवृत्तिर्वा । कार्यगौरवकृतं कुतूहल -
मेव देवावलोकनं प्रति बलात्प्रेरयत्यस्मान् । तद्विज्ञाय देवीम्, देवस्य
युवराजस्य पादप्रणामेनास्माकं सफलयतु भवानागमनपरिश्रमम् ।
अन्यथा भूमिमेतावतीमागत्य, संभवे सति, अप्रत्यक्षीकृतयुवराजशरीरा
गताः सन्तः किं तारापीडेन वक्तव्या वयम् । किं वास्माभिर्देवो
विज्ञापयितव्यः' इत्यावेदिते, देवी प्रमाणम्" इति विज्ञाप्य पुनस्तूष्णीं
स्थितवति मेघनादे, गद्गदिकयावगृह्यमाणकण्ठी कथंकथमपि चिरा-
कादम्बरी प्रत्युवाच
'स्थान एव हि तैरगमनमङ्गीकृतम् । अनव-
लोक्य देवम्, एवमेव याताः सन्तः किमुच्यन्ताम् । अपि च,
वृत्तान्त एवायमेवंविधो लोकातीतः, यत्रावलोकनेनापि न संप्रत्ययः
समुत्पद्यते । किं पुनरनालोकनेन । तदपरिलम्बितं प्रवेश्यताम् ।
पश्यन्तु देवम् । ततो यास्यन्ति' इति ।
 
आज्ञानन्तरं च मेघनादेन प्रवेशितान्दूरत एव समं बाष्पपातेन
पाङ्गालिङ्गितमहीतलांस्ताननन्यदृष्टिश्चिरमिवालोक्य, कादम्बरी स्वय-
मेवाभाषत – 'भद्रमुखाः, परित्यज्यतामयं क्रमागतस्नेहसद्भावसुलभः
शोकावेगः । यत्खल्त्रनालोचितावधि दुःखावसानमेव दु:खम्, तन्मर -
णभीरोर्भवतु नाम शोकावेगाय । यत्पुनः सुखोदर्कम्, तत्पुरः स्थितया
सुखप्रयाशयैवान्तरितं नापतति हृदये । भवद्भिरपि दृष्टं च पुरेवाक्षत-
तनोर्देवस्य वदनम् । तद्गम्यतामधुना वार्तोत्सुकमतेर्देवस्य पादमूलम् ।
न चायं प्रत्यक्षदृष्टोऽप्युपरत शरीराविनाशवृत्तान्त: प्रकाशनीय: ।
'दृष्टोऽस्माभिरच्छादसरसि । तिष्ठति' इत्येतदेवावेदनीयम् । यतः कार-