This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१८९
 
महाश्वेतायै राजपुत्रलोकायापि दर्शयित्वा कादम्बरी, शरीरस्थितिकर-
णायादिदेश सकलमेव राजलोकम् । आत्मनापि महाश्वेतयोपनीतानि
तथैव सह सपरिवारा फलान्युपभुक्तवती । अन्येद्युश्चोपजातदृढतरप्र-
त्यया मदलेखामवादीत् 'प्रियसखि, देवस्य शरीरमिदमुपचरन्तीभिरव-
श्यम् आ शापक्षयादस्माभिरघुनात्र स्थातव्यम् । तदिममत्यद्भुतं वृत्तान्तं
तातस्याम्बायाश्च गत्वा निवेदय । यथा मामेवंविधां दुःखभागिनीमा-
गत्य न पश्यतः, तथा करिष्यसि । न शक्नोम्यहं तातमम्बां च दृष्ट्वा
शोकवेगं धारयितुम् । मया चोपरतमेव देवमालोक्य न रुदितम् ।
सा, किमपरम्, अधुना नि:संशयितजीविते देवे प्रतिपन्ननियमा
रोदिमि' इत्यभिधाय तां व्यसर्जयत् ।
 
M
 
-
 
गत्वा आगतया च तथा 'प्रियसखि, सिद्धं तेऽभिवाञ्छितम् ।
एवं संदिष्टं तातेनाम्बया च - शापावसाने जामात्रा सहैवानन्दबाष्प-
निर्भरमाननारविन्दं ते द्रक्ष्याव:' इत्यावेदिते, निवृतेनान्तरात्मना
अतिष्ठत् ।
 
1
 
अथापगतप्रति जलदसमये, घननिरोधोद्वन्धादिवोन्मुक्ते जीव-
लोके, प्रसरन्तीष्विवाशासु, सलिलापसरणक्रमतरङ्गयमाणासु सुकुमार-
तीरसैकतरेखासु, एकदा कादम्बरीमुपसृत्य मेघनादो व्यज्ञपयत्-
"देवो युवराजश्चिरयतीत्युत्ताम्यता हृदयेन देवेन तारापीडेन वार्ताहाराः
प्रहिताः । ते च देव्या एव शोकशल्यघटनां परिहरद्भिर्यथावृत्तं
सर्वमाख्यायास्माभिरभिहिताः भवतां हस्ते देवेन चन्द्रापीडेन न
 
किंचित्प्रतिसंदेष्टव्यम् । नापि देव्या कादम्बर्या । तदकृतविलम्बा
एवं गत्वैवमग्विलवृत्तान्तं तारापीडायावेदयत' इत्येवमभिहितास्तु