This page has not been fully proofread.

कादम्बरीसंग्रहः ।
 
१८७
 
सानुकम्पमवादीत् – 'गन्धर्वराजपुत्रि, कस्तवात्र दोष: येनैवमनिन्द-
नीयमात्मानं निन्दापदैर्योजयसि । यथा च शापदोपादिदमुपगतं
भवत्योर्द्वयोरपि दु:खम्, तथा मया कथितमेव । चन्द्रमसोऽपि भारती
भवतीभ्यां श्रुतैव । द्वयोरेव श्रेयसे यदेव भवत्याङ्गीकृतम्, तदेवानु-
बध्यतां व्रतपरिग्रहोचितं तपः । तपसो हि सम्यकृतस्य नास्त्यसाध्यं
नाम किंचित्' इति महाश्वेता पर्यबोधयत् ।
 
प्राक्षीत्
 
उपशान्तमन्युवेगायां च महाश्वेतायाम्, कादम्बरी कपिञ्जलम-
'भगवन्, पत्रलेखया त्वया चास्मिन्सरसि जलप्रवेश:
कृत: । तर्दिक तस्याः पत्रलेखायाः संवृत्तमित्यावेदनेन प्रसादं करोतु
भगवान्' इति । स तु प्रत्यवादीत् - 'राजपुत्रि, सलिलपातानन्तरं
न कश्चिदपि तद्वृत्तान्तो मया ज्ञातः । तदधुना क्व चन्द्रापीडस्य
जन्म, क्त्र वैशम्पायनस्य, किं वा पत्रलेखाया वृत्तमिति सर्ववैवास्य
वृत्तान्तस्यावगमनाय गतोऽहं प्रत्यक्षलोकत्रयस्य तातस्य श्वेतकेतोः
पादमूलम्' इत्यभिदधान एव गगनमुदपतत् ।
 
अथ गते तस्मिन्, फादम्बरी महाश्वेतामवादीत्— 'प्रियसखि.
तुल्यदुःखता त्वया सह नयता न खल्वसुखं स्थापितास्मि भगवता
विधात्रा । अद्य मे शिर: समुद्घाटितम् । संप्रति मरणं जीवितं
वा न दुःखाय मे । तत्कोऽपरः प्रष्टव्यां मया । केन वापरणोपदेष्ट-
व्यम् । तदेवं गते यत्करणीयम्, तदुपदिशतु में प्रियसखी । नाहमा-
त्मना किंचिदपि वैभि – कि कृत्वा श्रेयः' इत्युक्तवती कादम्बरीं महा-
श्वेता प्रत्यवादीत् – 'प्रियसखि, किमत्र प्रश्नेनोपदेशेन वा । यदेवेय-
मनतिक्रमणीया प्रियतमसमागमप्रत्याशा कारयति तदेव करणीयम् ।
 
,