This page has not been fully proofread.

१८६
 
कादम्बरीसंग्रहः ।
 
ब्रवीत् – 'दुरात्मन्, यदेवमतिविस्तीर्णे गगनमार्गे त्वयाहमुद्दामप्रचा-
रिणा तुरंगमेणेवोलङ्घितः, तस्मात्तुरंगम एव भूत्वा मर्त्यलोकेऽवतर
इति । अहं तु तमुद्वाष्पपक्ष्मा कृताञ्जलिरवदम् – 'भगवन्, वयस्य-
शोकान्वेन त्वं मयोल्लङ्घितो नावज्ञया । तत्प्रसीद । उपसंहर शाप -
माशु त्वमिमम्' इति । स तु मां पुनरवादीत् – 'यन्मयोक्तम्, तन्ना-
न्यथा भवितुमर्हति । तदेतत्ते करोमि कियन्तमपि कालं यस्यैव
 
-
 
वाहनतामुपयास्यसि तस्यैवावसाने स्नात्वा विगतशापो भविष्यसि '
इति । एवमुक्तस्तु तमहमवदम्- 'भगवन्, यद्येवम्, ततो विज्ञापयामि -
तेनापि मत्प्रियवयस्येन पुण्डरीकेण चन्द्रमसा सह शापदोषान्मर्त्य -
लोक एवोत्पत्तव्यम् । तदेतावन्तमपि भगवान्प्रसादं करोतु मे दिव्येन
चक्षुपावलोक्य यथा तुरंगमत्वेऽपि मे तेनैव प्रियवयस्येन सहावि-
योगेन कालो यायात्' इति । स त्वेवमुक्तो मुहूर्तमिव ध्यात्वा पुन-
ममवादीत् 'उज्जयिन्यामपत्यहेतोस्तपस्यतस्तारापीडनाम्नो राज्ञ:
सनिदर्शनं चन्द्रमसा तनयत्वमुपगन्तव्यम्; वयस्येनापि ते पुण्डरीकेण
तन्मन्त्रिण एव शुकनासनाम्नः । त्वमपि तस्य महोपकारिणश्चन्द्रा-
त्मनो राजपुत्रस्य वाहनतामुपयास्यसि' इति । अहं तु तद्वचनान-
न्तरमेवावः स्थिते महोदधौ न्यपतम् । तस्माच तुरंगीभूयैवोदतिष्ठम् ।
संज्ञा तु मे तुरङ्गत्वेनापि न व्यपगता' ।
 
इत्येतच्छ्रुत्वा 'हा देव पुण्डरीक, जन्मान्तरेऽप्यविस्मृतमदनुराग,
लोकान्तरगतस्यापि तेऽहमेव राक्षसी विनाशायोपजाता। दुग्धप्रजाप-
तेरियदेव मन्निर्माणे दीर्घजीवितप्रदाने च प्रयोजनं निष्पन्नम्, यत्पुनः
पुनस्ते व्यापादनम्' इत्येवं कृतार्तप्रलापां महाश्वेता कपिञ्जल पुनरपि