कादम्बरीसङ्ग्रहः /191
This page has not been fully proofread.
कादम्बरीसंग्रहः ।
१८५
महति पर्यङ्के, तत्पुण्डरीकशरीरं स्थापयित्वा मामवादीत् - 'कपिञ्जल,
जानीहि मां चन्द्रमसम् । अहं खल्वनेन ते प्रिववयस्येन कामापराधा-
ज्जीवितमुत्सृजता निरापराध: संशप्त:
'दुरात्मन्निन्दुहतक, यथाहं
त्वया करै: संताप्योत्पन्नानुराग: सन्नसंप्राप्तहृदयवल्लभासमागमसुखः
प्राणैर्वियोजितः, तथा त्वमपि कर्मभूमीभूतेऽस्मिन्भारते वर्षे जन्मनि
जन्मन्येवोत्पन्नानुरागोऽप्राप्तसमागमसुख:, तीव्रतरां हृदयवेदनामनुभूय,
जीवितमुत्स्रक्ष्यसि' इति । अहं तु तेनास्य शापहुतभुजा झटिति
ज्वलित इव निरागा: किमनेनात्मदोषानुबन्धेन निर्विवेकबुद्धिना
शप्तोऽस्मि' इत्युत्पन्नकोप: 'त्वमपि मत्तुल्यदुःखसुख एव भविष्यसि '
इति प्रतिशापमस्मै प्रायच्छम् । अपगतामर्षश्च विवेकमागतया बुद्धया
विमृशन्महाश्वेताव्यतिकरमस्याधिगतवानस्मि । वत्सा तु महाश्वेता
मन्मयूखसंभवादप्सरसः कुलाल्लुब्धजन्मनि गौर्यामुत्पन्ना। तया चायं
भर्ता स्वयंवृतः । अनेन च स्वयंकृतादेवात्मदोषान्मया सह मर्त्यलोके
वारद्वयमवश्यमुपित्तव्यम् । अन्यथा 'जन्मनि जन्मनि' इत्येषा वीप्सैव
न चरितार्था भवति । तद्यावदयं शापदोषादपैति तावदस्यात्मना
विरहितस्य शरीरस्य मा विनाशो भूदिति मयेदमुत्क्षिप्य समानीतम् ।
वत्सा च महाश्वेता समाश्वासिता । तदिदमत्र मतेजसाध्यायमानमा
शापश्चयात्स्थिनम् । अधुना त्वं गत्वैनं वृत्तान्तं श्वेतकेतवे निवेदय ।
महाप्रभावोऽसौ कदाचिदत्र प्रतिक्रियां कांचिदपि करोति' इत्युक्त्वा
मां व्यसर्जयत् ।
अहं तु विना वयस्येन शोकावेगान्धो गीर्वाणवर्त्मनि धावन्,
अन्यतममतिक्रोधनं वैमानिकमलङ्घयम् । स तु मां दहन्निव निरीक्ष्या-
p