This page has not been fully proofread.

१८४
 
कादम्बरी संग्रहः ।
 
तोऽमुना कादम्बरीकरस्पर्शेनाप्यायमानं चन्द्रापीडशरीरं शापदोषाद्विमु-
क्तमप्यन्तरात्मना कृतशरीरान्तरसंक्रान्तेर्योगिन इव शरीरमत्रैव भवत्योः
प्रत्ययार्थमा शापक्षयादास्ताम् । यत्नतः परिपालनीयमा समागमप्राप्ते : '
इति ।
 
पत्रलेखा तु तेन तस्य ज्योतिष: स्पर्शेन लब्ध संज्ञोत्थाय,
आविष्टेव वेगाद्धावित्वा, परिवर्धकहस्तादाच्छिद्येन्द्रायुधम्, तेनैव सहा-
त्मानमच्छोदसरस्यक्षिपत् ।
 
,
 
अथ तयॉर्निमजनसमयानन्तरमेव, तस्मात्सरसः सलिलात्,
शैवलो कर मित्र शिरसि लग्नं जटाकलापमुद्वहन् उद्विग्ग्राकृतिस्तापस-
कुमारकः सहसैवोदतिष्ठत् । उत्थाय च दूरत एव विलोकयन्ती महा-
श्वेतामुपसृत्य शोकगद्गदमत्रादीत् 'गन्धर्वराजपुत्रि, जन्मान्तरा-
सा त्वेवं पृष्टा
 
दिवागतोऽपि प्रत्यभिज्ञायतेऽयं जनः, न वा' इति ।
शोकानन्दमध्यवर्तिनी, ससंभ्रममुत्थाय कृतपादवन्दना, प्रत्यवादीत् -
'भगवन्कपिञ्जल, नाहमेवं विधापुण्यवती, या भवन्तमपि न प्रत्यभि-
जानामि । अथवा युवेदशी मय्यनात्मज्ञायां संभावना, याहमेका-
न्तत एव व्यामोहहता स्वर्ग गतेऽपि देवे पुण्डरीके जीवामि । तत्क-
केनासावुत्क्षिप्य नीत: ? कि वा तबोपजातम् येनैतावता
कालेन वार्तापि न दत्ता । कुतो वा लमेकाफी देवन विना समा-
स तु प्रत्यवादीत् – "गन्धर्वराजपुत्रे, श्रयताम् — अहं हि
 
श्रय
 
9
 
66
 
गतः' ।
 

 
कृतार्तप्रलापामपि त्वामेकाकिनीं समुत्सृज्य तं पुरुषमनुघ्नन्, जत्रे-
नोदपतम् । स तु मे प्रतिवचनमदत्त्वैवातिक्रम्य तारागणम्, चन्द्र-
लोकमगच्छत् ।' तत्र च महोदयाख्यायां सभायाम्, इन्दुकान्तमये
 
-